________________
भवभावना-३५१
१०१
[अव] सुगमा॥ कथेयम्
भुवनव्यवहारिकथा] यथा-काम्पिल्यपुरे कुशस्थलश्रेष्ठी। तस्य चत्वारः पुत्राः। कनीयान् भुवनो यथोक्तगुणवान्। अन्यदा वृद्धैर्बन्धुभिः “दानव्यसनं त्यज” इति तस्योक्तम्। “नो चेत् पृथग् भवा”स ऊचे “दानं न त्यजामि, पथग भविष्यामि।” पितरि वारयत्यपि तैः पथक्कतः। ते भागं धनस्यार्पयन्ति। स न लाति। वृद्धाः प्राहुः–“भागं तर्हि हृदे क्षिप्यते, वयं न स्थापयामः।” ततस्तेन गृहीतो भागः। सर्वधनं धर्मे व्ययित्वा एकं जीर्णप्रासादमुद्धृत्य स्वबलेन धनार्जनाय देशान्तरं गतः। एको योगी मिलितः। स भवनं प्राह “त्वामीश्वरं करोमि” इति। ततो कल्पप्रमाणेन द्वावपि गिरिविवरे प्रविष्टौ। तत्रैकं देवं बहुदेवपरिवृतं पश्यतः। योगी क्षुब्धो देवेन दूरे क्षिप्तः। अक्षुब्धं भुवनं स प्राह–“यस्त्वया प्रासादः समुद्धतः स पूर्वं मया कारितः।” ततस्तेन देवेनोत्पाद्य काम्पिल्यपरे मुक्तः। सवर्णमये रत्नकोटियुते धवलगृहे स्थापितः। धनं बन्धुभ्योऽर्पयति। स दानभोगाभ्यां युक्तः। अन्यदा मत्सरेण वृद्धबन्धुना राज्ञोऽग्रेज्ञापितम् "भुवनेन तव निधानं लब्धम्।” राज्ञा भुवनोधृतः। सर्वं गृहीतम्। कारासु क्षिप्तः। इतश्च तेन देवेन पुरोपरि शिलाविकुर्वणादिना भापितेन राज्ञा क्षमयित्वा मुक्तोऽसौ भुवनः। बन्धवोधृताः। भुवनेन मोचिताः। भुवनः पुनर्बहुदेवदत्तधनो दानादिना श्रीजिनधर्ममाराध्यदेवलोकं गतः॥ इति भुवनव्यवहारिकथानकम्॥३४८॥ [] उप्पण्णाण य देवेसु ताण आरम्भ जम्मकालाओ। उप्पत्तिकमो भन्नइ, जह भणिओ जिणवरिंदेहि॥३४९॥
[उत्पन्नानां च देवेषु तेषामारभ्य जन्मकालात्।
उत्पत्तिक्रमो भण्यते यथा भणितो जिनवरेन्द्रैः॥३४९॥] [म उववायसभा वररयणानिम्मिया जम्मठाणममराण। तीसे मज्झे मणिपेढियाए रयणमयसयणिज्ज॥३५०॥
[उपपातसभा वररत्ननिर्मिता जन्मस्थानममराणाम्।
तस्या मध्ये मणिपीठिकायां रत्नमयशयनीयम्॥३५०॥] [मू] तत्थुववज्जइ देवो, कोमलवरदेवदूसअंतरिए। अंतोमुत्तमज्झे, संपुन्नो जायए एसो॥३५१॥
[तत्रोत्पद्यते देवः कोमलवरदेवदृष्यान्तरिते। अन्तर्मुहूर्तमध्ये सम्पूर्णो जायते एषः॥३५१॥]