________________
१००
भवभावना-४३८
इअ पावकारिणो परिभमंति पुणरुत्तमेव भवचक्के। दुःखेहिं अणंतेहिं तिव्वेहिं सया न मुंचंति॥२५॥ (हेम.मल.वृत्ति)
इति गुरुभाषितं श्रुत्वा कालश्चिन्तयति। स्तोकान्येवैतैः पापस्थानान्युक्तानि, मया तु बहूनि कृतानि, ततोऽवश्यं मया नरक एव गन्तव्यमिति संवेगमापन्नः पितरं तपस्यार्थमापृच्छति। 'अहो! शृङ्गेण शृङ्खलोत्तीर्णः, निर्गच्छत्वेष रोगः' इति पित्रोत्साहितः प्रवव्राज। गीतार्थो जातः। हरिषा(अर्शो) रोगार्ता भेषजं न कुरुते। निष्प्रतिकर्मशरीर एकाकी विहारं प्रपन्नः। मुग्निल्लगिरौ(मुद्गशैलनगरे) प्राप्तः। तत्र तस्य भगिनीपति पो देव्या सह वन्दनायागतः। ततो देव्या तस्य रोगो ज्ञातः कथमपि पृष्ट्वा तदपहरणचूर्णमिश्रभक्तं दत्तम्। स न वेत्ति पतितान्यांसि। निर्विण्णो भक्तं प्रत्याख्याति। जम्बुकदेवेन शृगालीभूय पूर्ववैरेण कदर्थितः सम्यगधिसह्य देवो जातः॥ इति जम्बुकाख्यानकम्॥ बालतपःकर्मणि तामलिप्त्यां तामलिप्तश्रेष्ठिकथा।
___ [तामलिप्तश्रेष्ठिकथा] तामलिर्गृहपतिः। स वृद्धः ज्येष्ठपुत्रे कुटुम्बभारं न्यस्य तापसः षष्ठतपस्कारकः पारणे जलचरस्थलचरखचराणां भागत्रयं दत्त्वावशिष्टं तर्यभागं (२१) एकविंशतिवारं जलधौतं भुञ्जानो षष्ठिवर्षसहस्राणि बालतपः कृत्वा प्रान्ते गृहीतावानः(नशनः) बलीन्द्रमरणे बलिचञ्चाराजधानीदेवदेवीभिर्निदानाय भृशं लोभ्यमानोऽपि निदानमकृत्वा ईशानेन्द्रो जातः। तच्छरीरावज्ञां कुर्वाणा असुरा ईशानेन्द्रेण भाषिताः स्वस्थानं प्रापुः॥ इति तामलिप्तश्रेष्ठिकथा॥ [मू] अन्ने वि हु खंतिपरा, सीलरया दाणविणयदयकलिया। पयणुकसाया भुवणो, व्व भद्दया जंति सुरलोयं॥३४८॥
[अन्येऽपि खलु क्षान्तिपराः शीलरता दानविनयदयाकलिताः। प्रतनुकषाया भुवन इव भद्रका यान्ति परलोकम्॥३४८॥]
१. नरकेषु महारम्भेण तथा महाधनपरिग्रहेणापि। पञ्चेन्द्रियहिंसया कुणिमाहारेण व्रजन्ति॥ मायाशीलत्वेन कूटतुलाकूटमानकरणेन। कूटक्रीताद्यलिकेन यान्ति श्वानादितिर्यक्षु।। अन्धा बधिराः परसन्तापेन भवन्ति मनुजेषु। देवेष्वपि दौर्भाग्यं किल्बिषिकत्वादि प्राप्नुवन्ति। इति पापकारिणः परभ्रमन्ति पुनरावृत्त्यैव भवचक्रे। दुःखैरनन्तैः तीत्रैः सदा न मुच्यन्ते।।