________________
भवभावना-३४७
ग्रहारम्भादिभयादनिच्छन्नपि धनञ्जयः श्राद्धधर्ममाराध्याच्युते द्वाविंशति-सागरायुर्देवो जातः॥ इति धनञ्जयश्रेष्ठिकथा।। [अव] अकामनिर्जरया देवत्वावाप्तौ जम्बुककथा
_[जम्बुककथा] मथुरायां जितशत्रु राजा, तस्य काली नाम्नी वेश्या पट्टराज्ञी। तत्पुत्रः कालकुमारः सर्वान्यायकुलगृहम्।
निच्चं हरइ धणाइं, जणस्स पाडइ घरेसु खत्ताई। लुट्टइ वट्टासु जणं, धारइ बंदेसु गहिऊणं॥६॥ विद्धंसइ नारिजणं, बला वि गिण्हेइ सारवत्थूणि। कालो च्चिअ पच्चक्खो, अहिए च्चिय वट्टइ जणस्स॥७॥
(हेम.मल.वृत्ति) अन्यदा धवलगृहस्थो वनस्थजम्बुकशब्दं श्रुत्वा स्वजनै जम्बुकं बद्ध्वा आनाय्य कशादिभिस्ताडयति। खिं खिं कुर्वाणो जम्बुको मृत्वाकामनिर्जरया देवो जातः। इतश्च पौरैः कुमारस्य अन्याया राजे विज्ञप्ताः। राजा राज्ञीदाक्षिण्यात् किमपि न कथयति। तद्व्यतिकरं ज्ञात्वा सविशेषं जनानुपाद्रवत्। अन्यदा साधूनामुपाश्रये गतः, भीताः साधवः व्याख्यानं मुक्त्वा मौनेन स्थिताः। ततः कालः पृच्छतिधर्मम्। गुरवः कथयन्ति
नरएसु महारंभेण तह महाधणपरिग्गहेणावि। पंचिंदिअहिंसाए, कुणिमाहारेण वच्चंति॥२२॥ मायासीलत्तेण य कुडतुलाकूडमाणकरणेणं। कूडक्कयाइअलिएण, जंति सीआलाइतिरिएसु॥२३॥ अंधा बहिरा इंटा, परसंतावेण हुंति मणुएसु। देवेसु अ दोहग्गं किब्बिसियत्ताइ पावंति॥२४॥
१. 'तत्तो ह' इति मु. अ.। २. नित्यं हरति धनानि जनस्य गृहेषु पातयति क्षात्राणि। लुण्टयति वर्त्मसु जनान् रोधयति बन्धेषु गृहीत्वा।।
विध्वंसयति नारीजनं बलादपि गृह्णाति सारवस्तूनि। कालश्चैव प्रत्यक्षः अहिते चैव वर्तते जनस्य।