________________
भवभावना-३४७
ततः पुत्राय राज्यं दत्त्वा प्रवव्राज। अधीतसूत्रार्थः एकाकिप्रतिमामाप्रपन्नो दृष्टस्तेन सुरेण वैरिणा स प्रतिमास्थः। प्रारब्धा रौद्रा उपसर्गाः। स तूपशमश्रेणिमारुढो एकादशं गुणस्थानं प्राप। मृत्वानुत्तरविमाने देवो जातः। ततो विदेहे सिद्धिंगमी।
छउमत्थसंजमेणं उत्तमदेवत्तमेव सम्पत्तो। केवलसंजमिणो च्चिअ जीवा सिज्झन्ति सव्वेवि॥ (११०)
(हेम.मल.वृत्ति) ॥इति श्वेताम्बिकाराजकथा॥ देशचारित्रेण देवताप्तौ धनञ्जयश्रेष्ठिकथा
धनञ्जयश्रेष्ठिकथा] कुणालायां श्रीतनयश्रेष्ठी। तस्य चत्वारः पुत्राः। तेषु लघीयान् धनञ्जयनामा विनयादिगुणवान् अध्यापकपार्श्वे शाकिनीयोगिनीभूतादिनिग्रहकारिणी विद्या अधीतवान्। अन्यदा यौवनं प्राप्तः। स पुरमध्ये भ्रमन् गतो द्यूतपार्श्वे द्रम्मपञ्चशतीं हारयित्वा गृहमायातः। पित्रापि निर्भय॑ वस्त्रालङ्काराद्युद्वास्य कोपीनवसनः कृतः। हसितो भातृजायादिभिः स्वार्जितान्येव वस्त्राणि परिधास्यामीति प्रतिज्ञातवान्। निर्गतो गेहाद वल्कलवसनः फलाहारो भ्रमन् विशालापुर्यामासन्नो रात्रौ वृक्षकोटरं प्रविश्य स्थितः। इतश्च षोडश स्त्रियः कृत्तिकाकरा वृक्षादवतीर्य भूमौ प्राप्ताः। एकश्च साकारस्तरुणः सुरूपपुरुषो निगडितकरचरणस्तत्रानीतस्ताभिः। तास्तं वदन्ति “अरे इष्टदेवतं स्मर” इति धनञ्जयः पश्यति। कृपया कोटरान्निग्रहकरी विद्यां स्मृत्वा सर्वा योगिन्यः खरीकृताः। मोचितः स स्माह–“भद्र ! प्रविशालानगरीशस्यारिसिंहस्य सुतोऽहमिन्द्रनाम एताभिर्योगिनीभिर्बद्ध्वात्रानीतः ततस्त्वया मोचितः।” ततः स सर्वा खरीः हक्कयित्वा नृपसुतेन सह विशालायां गतः। प्रतोलीद्वारे वाणिज्यकारकाणां खरीः मूल्येन समर्पयति। इन्द्रकुमारः पुत्रमरणशोकार्तं निजकुटुम्बं स्वदर्शनेन यथास्थितस्वरूपकथनेन प्रत्याययति। सर्वे नृपादयो हृष्टाः। धनञ्जयेन कृपया योगिन्यो मुक्ताः। गतास्ता देशान्तरम्। इन्द्रो धनञ्जयसङ्गत्या साधुपार्श्वे धर्मं श्रुत्वा श्राद्धो जातः। द्वावपि धर्मं कुरुतः। अन्यकेन्द्रो राजा जातः। धनञ्जयो मन्त्री जातः। प्रभूतपरि१. छद्मस्थसंयमेन उत्तमदेवत्वमेव सम्प्राप्तः। केवलसंयमिनश्चैव जीवा: सिद्ध्यन्ति सर्वेऽपि।।