________________
भवभावना-३४७
जातोऽष्टवार्षिकः। राजपुत्रोचितक्रीडया क्रीडति। शिक्षिताः सर्वाः कला धनुर्वेदादिकाः। जातस्तस्य सुयशा नृपपुत्रो मित्रम्। तेन सह राजसभायां याति। राज्ञापि तस्य कलाकौशलं गुणांश्च दृष्ट्वा गुणसागर इति नाम दत्तम्। सुताया रत्नवत्यास्तत्र कुमारेऽनुरागो जातः। स्थाने मत्पुत्र्या अनुराग इति राजापि हृष्टः। परं तस्य कुलगोत्राद्यपरि ज्ञानाद्विषण्णः। इतश्च केनापि गुणसागरोऽपहृत्याम्बुधौ क्षिप्तो, रत्नवती क्वापि पर्वते मुक्ता जलनिधौ अपतत्। दैवयोगाद्धरणेन्द्रेण दृष्टो गृहीतभणितश्च, “भद्र! रोहितकपुरे धरणो राजा, धनदत्तो मन्त्री। एकदायेन नन्दनव्यवहारिणं दण्डितवान्। धनापहारोजातोग्रहिलो नन्दनः। अन्यदा राजा स्थाविराचार्याणां पार्श्वे धर्मं श्रुत्वा प्रवव्राज, धनदत्तोऽपि। द्वावपि तपः कुरुतः। धनदत्तोऽहं मृत्वा धरणेन्द्रो जातः। राजा तु मम सामानिकः। स च ततश्च्युत्वा कुशस्थलपुरेऽभिचन्द्रस्य पुत्रो जातः। इतश्च नन्दनश्रेष्ठी कालेन स्वस्थीभूतस्तापसव्रतं पालयित्वा सौधर्मे देवो जातः। पूर्ववैरेण तेन स बालोऽपहृत्याम्बुधौ द्वीपान्तर्मुक्तः। स च त्वं सागरश्रेष्ठिना प्राप्तः पुनरपि तेन देवेन सम्प्रत्यत्र क्षिप्तः। रत्नवती तु पर्वते। तत्र सा विद्याधरेण दृष्टा प्रार्थ्यमानापि सा तं नेच्छति त्वदेकचित्ता।” इत्युक्त्वा धरणेन्द्रेण पूर्वभवस्नेहेन पठितसिद्धा विद्या दत्ताः प्रभूतास्तस्मै। तेन विद्याबलेन विमानं कृत्वा आरुह्य च तत्र पर्वते खेचरं जित्वा रत्नवतीयुतः स्वपुरमागतः। रत्नवती परिणीता। इतश्च केवली तत्रायातः। राज्ञा गुणसागरस्य कुलादि पृष्टः सन् यथा धरणेन्द्रेणोक्तं तथैवोक्तवान्। राजा हृष्टः। गुणसागराय राज्यं दत्त्वा सपुत्रस्तपस्यां ललौ। ज्ञानिना प्रोक्तं श्रुत्वाभिचन्द्रोऽपि स्वराज्यं तस्मै दत्त्वा व्रतमादत्त। गुणसागरो राज्यद्वयं कुरुते। अन्यदा वान्तमाहारं श्वानं भुञ्जानं दृष्ट्वा राज्ञाचिन्ति
वंताइंधीरेहिं रज्जाई हरिसिउं अभुंजामि। अच्छरियं जंपुरिसंभणन्ति मंसुणयचरिअंपि॥ (८२) ता इण्हिं पिहु मग्गं ताण य वज्जामि धीरपुरिसाणं। इहरा निरत्थयं चिअभमिहामि भवं महाघोरं। (८५)
(हेम.मल.वृत्ति)
१. अत्र मु.अ. प्रतौ एवंरूपः पाठः दृश्यते- अहयं पि तारिसो च्चिय वंताई वीरपुरुसेहिं ॥८१॥
रज्जाइं जेण भुंजामि तुट्ठचित्तो अचिंतियसरूवो। अच्छरियं जं पुरिसं भणन्ति मं सुणयचरिअं पि ॥८२॥ २. वान्तानि धीरैः राज्यानि हर्षित्वा च भुनज्मि। आश्चर्यं यत्पुरुषं भणन्ति माम् श्वचरितमपि।। ततः इदानीमपि खलु मार्गं तेषां प्रव्रजामि धीरपुरुषाणाम्। इतरथा निरर्थकं चैव भ्रमिष्यामि भवं महाघोरम् ॥