SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ भवभावना-३४५ [मू] वन्नियभवणसमिद्धीओऽणंतगुणरिद्धिसमुदयजुयाई। सुणमाणाण वि सुहयाइं सेवमाणाण किं भणिमो ?॥३४५॥ [वर्णितभवनसमृद्धयोऽनन्तगुणसमृद्धिसमुदययुतानि। ___ शृण्वतामपि सुखदानि सेवमानानां किं भणामः ?॥३४५॥] [अव] प्राकाररूपा पद्मवरवेदिका विद्यते येष्वित्यर्थः। वृत्तचतुरस्रादिभिर्नानासंस्थानैः कलितानि। शेषं निगूढार्थम्॥३४५॥ निरूपिता लेशतो देवलोकाः। अथ येन कृतेन जीवास्तेषूत्पद्यन्ते। तदाह[मू] छउमत्थसंजमेणं, देसचरित्तेणऽकामनिज्जरया। बालतवोकम्मेण य, जीवा वच्चंति दियलोयं॥३४६॥ [छद्मस्थसंयमेन देशचारित्रेणाकामनिर्जरया। बालतपःकर्मणा च जीवा व्रजन्ति देवलोकम्॥३४६॥] [अव] छद्मस्थानां संयमः तेन जीवा देवलोकं व्रजन्ति। निवृत्तछद्मानो जीवा मोक्षमेव यान्ति इति छद्मस्थ-संयमग्रहः। तथा देशविरत्याकामस्यानभ्युपगमवतो निर्जरतयाकामनिर्जरया बालतपःकर्मणा च देवलोकं जीवा गच्छन्ति। अथ क्रमेणोदाहरणानि प्राह[म] सेयवियानरनाहो, सेट्ठी य धणंजओ विसालाए। जंबूतामलिपमुहा, कमेण एत्थं उदाहरणा॥३४७॥ __[श्वेतम्बिकानरनाथः श्रेष्ठी च धनञ्जयो विशालायाम्। जम्बुकतामलीप्रमुखाः क्रमेणात्रोदाहरणानि।।३४७॥] [अव] छद्मस्थसंयमेन श्वेताम्बिकानरनाथो दिवमुपययौ। देशविरत्या तु धनञ्जयः श्रेष्ठी। अकामनिर्जरया जम्बुकः शृगालः। बालतपःकर्मणा तामलिश्रेष्ठी। प्रमुखग्रहणेनामी, अनन्ताः सर्वत्रान्येऽपि द्रष्टव्याः। अथ क्रमेणैतेषां कथानकानि तेषु प्रथमं _श्वेताम्बिकाराजकथा] यथा श्वेताम्बिकापुर्यां विजयो राजा। सागरमित्रः श्रेष्ठी। स एकदा जलधौ धनार्जनाय पोतेन व्रजन् मार्गे क्वापि द्वीपे शून्येऽनलग्रहणार्थमुत्तीर्णः। तत्र निरुपमरूपं बालकं गृहीत्वा स्वपुरे क्रमेणायातः। तस्य बालकस्य सागरदत्त इति नाम कृतम्।
SR No.009259
Book TitleBhavbhavna Prakaranam
Original Sutra AuthorHemchandracharya
AuthorVairagyarativijay
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2014
Total Pages248
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy