________________
भवभावना-३३८
[मू] दसदिसिविणिग्गयामलरविसमहियतेयदुरवलोयाई। बहुपुन्नपावणिज्जाइं पुन्नजणसेवियाइं च॥३३८॥
[दशदिग्विनिर्गतामलरविसमधिकतेजोदुरवलोकानि।
___ बहुपुण्यप्रापणीयानि पुण्यजनसेवितानि च॥३३८॥] [] पत्तेयं चिय मणिरयणघडियअट्ठसयपडिमकलिएणं। जिणभवणेण पवित्तीकयाई मणनयणसुहयाइं॥३३९॥
[प्रत्येकं चैव मणिरत्नघटिताष्टशतप्रतिमाकलितेन।
जिनभवनेन पवित्रीकृतानि मनोनयनसुखदानि।।३३९॥] [अव] इत्येकादशगाथाः स्पष्टार्थाः। नवरं बहिर्वृत्तानीत्यादीनि मनोनयनसुखकराणीत्येतत्पर्यन्तानि भवनानां विशेषणानि। तत्र च दीप्यमानरत्नभासुराणि निविष्टानि गोपुरेषु प्रतोलीद्वारेषु कपाटानि। तथा द्वारेषु प्रतिद्वारेषु च तोरणैश्चन्दनकलशैश्च भूषितानि। तथा रत्नविनिर्मितैः पुत्तलिकाशयनासनेषु शोभितानि। तथा रत्नराशिभिः कलितानि सौम्यकान्तिभिर्दीप्यमानानि वितीर्णो = दत्तो दशार्द्धवर्णैः कुसुमैरुपचारो येषु तानि। बहुसुरभिद्रव्यमिश्रितेन सुगन्धगोशीर्षश्रीखण्डरसेन निषिक्तानि। हरिचन्दनस्य बहलस्तबकैर्दत्तानि पञ्चाङ्गुलितलानि येषु। एवंसुखोन्नेयमिति। शेषाः सुगमार्थाः॥३३९॥
अथव्यन्तराणां नगरसङ्ख्यामाह[म] तह चेव संठियाइं, संखाईयाइं रयणमइयाइं। नयराइ वंतराणं, हवंति पुव्वुत्तरूवाइं॥३४०॥
तथा चैव संस्थितानि सङ्ख्यातीतानि रत्नमयानि।
नगराणि व्यन्तराणां भवन्ति पूर्वोक्तरूपाणि॥३४०॥] [अव] बहिर्वृत्तान्यन्तश्चतुरस्राण्यधस्तु पद्मकर्णिकानि भवनानि यथा प्रोक्तानि तथैवैतान्यपि संस्थितानि केवलं सङ्ख्यायामेतान्यसङ्ख्येयानि द्रष्टव्यानि। शेष स्वरूपं पूर्ववदिति॥३४०॥
अथज्योतिष्कविमानान्याह[मू] फलिहरयणामयाई, होति कविट्ठद्धसंठियाइं च। तिरियमसंखेज्जाइं, जोइसियाणं विमाणाइं॥३४१॥
[स्फाटिकरत्नमयानि भवन्ति कपित्थार्द्धसंस्थितानि च। तिर्यगसङ्ख्येयानि ज्योतिष्काणां विमानानि॥३४१॥]
१.जोइसियाई इति पा. प्रतौ।