________________
भवभावना-३१४
जिनदत्तश्रावककथा॥३१३॥
तदेवं गर्भवासबालतारुण्यवार्धक्यलक्षणासु चतसृष्वप्यवस्थासु चिन्त्यमानं मनुष्येष्वपि न किञ्चित् सुखमस्ति। यदपि राजादयः केऽपि आत्मनि तन्मन्यन्ते, तदपि मिथ्याभिमानोपकल्पितमेव, न तु तत्त्वत इति दर्शयति[मू] चउसु पि अवत्थासुं, इय मणुएसुं विचिंतयंताणं। नत्थि सुहं मोत्तूणं, केवलमभिमाणसंजणिय॥३१४॥
[चतसृष्वपि अवस्थासु इति मनुजेषु विचिन्तयताम्।
नास्ति सुखं मुक्त्वा केवलमभिमानसञ्जनितम्॥२१४॥] [अव] स्पष्टा॥३१४॥
ननु मनुष्याणामागमे दश दशाः श्रूयन्ते, अत्र तु चतुस्र एवोक्तास्तास्ततः कथं न विरोधः? इत्याह[मू] मणुयाण दस दसाओ, जाओ समयम्मि पुण पसिद्धाओ। अंतब्भवंति ताओ, एयासु वि ताओ पुण एवं॥३१५॥
[मनुजानां दश दशा याः समये पुनः प्रसिद्धाः।
अन्तर्भवन्ति ता एतास्वपि ताः पुनरेवम्॥३१५॥] [अव] याः पुनः समये एव दश दशा मनुष्याणां प्रसिद्धास्ता एतास्वपि चतसृष्वप्यवस्थास्वन्तर्भवन्ति। ततो न विरोधः। न हि बालतरुणवृद्धत्वेभ्योऽन्यत्र काश्चिद्दशा वर्तते इत्यर्थः॥३१५॥
काः पुनस्ताः? इत्याह। कियत्प्रमाणा? इत्याह[मू] बाला किड्डा मंदा, बला य पन्ना य हाइणि पवंचा। पन्भारमुम्मुही सायणी य दसमी य कालदसा॥३१६॥
बाला क्रीडा मन्दा बला च प्रज्ञा च हायनी प्रपञ्चा।
प्राग्भारोन्मुखी शायनी दशमी च कालदशाः॥३१६।] [अव] स्पष्टा। नवरं किञ्चिल्लिख्यते यथाबालस्यै यमवस्था धर्मधर्मिणोरभेदा बाला १। क्रीडाप्रधाना दशा क्रीडा २।