________________
भवभावना-३१३
[मू] वुड्ढत्तम्मि य भज्जा, पुत्ता धूया वधूयणो वा वि। जिणदत्तसावगस्स व, पराभवं कुणड़ अइदुसहं ॥ ३१३ ॥
[वृद्धत्वे च भार्याः पुत्रा दुहितरो वधूजनो वापि। जिनदत्तश्रावकस्येव पराभवं करोति अतिदुःसहम् ॥३१३॥]
[अव] स्पष्टा। कथा चेयम्
८७
[जिनदत्तश्रावककथा]
श्रावस्त्यां पुर्यां जिनदत्तः श्राद्धः । समृद्धाश्चत्वारः पुत्राः पित्रा परिणायिता। गृहचिन्तां सर्वां ते कुर्वन्ति। जिनदत्तमित्रं विमलश्रेष्ठी। एकदा जिनदत्तेन मित्रवारितेनापि सर्वापि श्रीः पुत्रायत्ता कृता। पुत्रा व्यवसायाय व्यापृताः। स्वस्वभार्याणां कथयन्ति–पितुः शुश्रूषा कार्या। ताभिः प्रतिपन्नम्। कुर्वन्ति सर्वा अपि श्वशुरस्य। क्रमेण ता निरादरा जाताः। स सीदति। सुतेभ्यः कथयति निजदुःस्थताम् । तेऽपि यावत् तासां कथयन्ति तावता समुदायेन कलकलायमाना वदन्ति - “एष वृद्धो विकलो अस्माकं कृतमपि विपरीतं मन्यते, रतिं न लभते।” ततः पुत्रैरालोच्य प्रच्छन्नमेकः पुरुषः प्रहितः सम्यग् विलोकनाय । ततस्ताभिर्धर्ताभिर्ज्ञातस्तद्दृष्टौ सारां सविशेषां कुर्वन्ति । सोऽपि तेषां वक्ति–'एता भक्तिं कुर्वन्ति।' सुतैः पिता पुनरपि पृष्टः। वधूनामवज्ञां कथयति। सुतैश्चिन्तितं वृद्धत्वविकलोऽयम्। अन्यदा सुहृदाह – “भप्र (मित्रम् !) प्रागपि मया त्वं वारितः श्रियं तु सुतायत्तां मा कुरु, सम्प्रति किं स्याद् ? गते जले कः खलु सेतुबन्धः ? इति वचनात्, तथाप्युपायं करिष्यामि येन तव सुखं स्यात्, न पुनर्धर्मव्ययादिकम् एतावता भव्यम्।” ततो मित्रेण गृहे गत्वा टिक्किरीटकान् कृत्वा ग्रन्थो बद्ध्वानीय तस्मै दत्ताः । सोऽपि वृद्धो वध्वाः(वधूं) कथयति–“यन्मया लोभातिरेकात् विटङ्ककसहस्रं सुतानां नार्पितम्, अत्र खट्वाः पादतले निधायमानमस्ति, मम मरणान्तरं त्वया ग्राह्यम्।” सा हृष्टात्यादरेण भक्तिं कुरुते। एवमपरासामपि रहसि तथैवोक्तम्। ता अपि सादरा जाताः । श्रेष्ठी सुखीबभूव। अन्यदा पञ्चत्वं प्राप। सुतैः श्मशाने नीतः । गृहे स्नानवेलायां ज्येष्ठा वधूः ज्वरमिषं कृत्वा गृहमध्ये स्थिता। अन्याः स्नानं कुर्वन्ति । ज्येष्ठा भूमिं खनित्वा धनग्रन्थिं गृह्णाति। तावदन्या अप्यागता मिलिताः कलहायन्ते अन्योऽन्यम्, धनकृते सर्वा अपि धनग्रन्थौ लग्नाः तमाकर्षन्ति। सम्मुखं त्रुटितो ग्रन्थिः । दृष्टा टिक्किरीटङ्काः-अहो! वञ्चिताः स्म इति विलक्षा जाता। वदन्ति – “अहो ! अस्मद्भक्तिसदृशमेव कृतं तेन इति ।। ” इति