________________
निर्धूम-वर्तिरपवर्जित तैल-पूरः कृत्स्नं जगत्त्रयमिदं प्रकटीः करोषि । गम्यो न जातु मरुतां चलिताचलानां दीपोऽपरस्त्वमसि नाथ जगत्प्रकाशः।।16।। ओं ह्रीं त्रैलोक्य-लोक-वशङ्कराय क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय श्री वृषभजिनाय अघ्यं निर्वपामीति स्वाहा।।16।।
नास्तं कदाचिदुपयासि न राहु-गम्यः स्पष्टीकरोषि सहसा युगपज्जगन्ति। नाम्भोधरोदर-निरुद्ध-महा-प्रभावः सूर्यातिशायि-महिमासि मुनीन्द्र लोके॥17॥ ओं ह्रीं पापान्धकार-निवारणाय क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय श्री वृषभजिनाय अघ्यं निर्वपामीति स्वाहा॥17॥
नित्योदयं दलितमोह-महान्धकारं गम्यं न राहु वदनस्य न वारिदानाम् । विभ्राजते तव मुखाब्जमनल्पकान्ति विद्योतयज्जगदपूर्व-शशाङ्क-बिम्ब।।18।। ओं ह्रीं चन्द्रवत्-सर्वलोकोद्योतनकराय क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय श्री वृषभजिनाय अघ्यं निर्वपामीति स्वाहा।।18॥
किं शर्वरीषु शशिनाह्नि विवस्वता वा युष्मन्मुखेन्दु-दलितेषु तमः सु नाथ। निष्पन्न-शालि-वन-शालिनि जीव-लोके । कार्यं कियज्जलधरैर्जल-भार-नम्रैः॥19॥ ओं ह्रीं सकल- कालुष्य-दोषनिवारणाय क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय श्री वृषभजिनाय अयं निर्वपामीति स्वाहा॥19॥
ज्ञानं यथा त्वयि विभाति कृतावकाशं नैवं तथा हरि-हरादिषु नायकेषु । तेजः स्फुरन्मणिषु याति यथा महत्वं नैवं तु काच शकले किरणाकुलेऽपि॥20॥
ओं ह्रीं केवलज्ञान-प्रकाशित-लोकालोकस्वरूपाय क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय श्री वृषभजिनाय अघ्यं निर्वपामीति स्वाहा॥20॥
43