________________
दृष्ट्वा भवन्तमनिमेष-विलोकनीयं नान्यत्र तोषमुपयाति जनस्य चक्षुः। पीत्वा पयः शशिकर-द्युति-दुग्ध-सिन्धोः क्षारं जलं जल-निधेरसितुं क इच्छेत्।।11। ऊँ हीं सकलतुष्टि-पुष्टिकराय क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय श्री वृषभजिनाय
अध्यं निर्वपामीति स्वाहा॥11॥
यैः शान्त-राग-रुचिभिः परमाणुभिस्त्वं निर्मापितस्त्रिभुवनैक-ललाम-भूत। तावन्त एव खलु तेऽप्यणवः पृथिव्यां यत्ते समानमपरं न हि रूपमस्ति।।12॥ ॐ ह्रीं वांछितरूपफलशक्तये क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय श्री वृषभजिनाय
___अध्यं निर्वपामीति स्वाहा॥12॥
वक्त्रं क्व ते सुर-नरोरग-नेत्र-हारि निःशेष-निर्जित-जगत्रितयोपमानम्। बिम्बं कलङ्क-मलिनं क्व निशाकरस्य यद्ववासरे भवति पाण्डु-पलाश-कल्पम्।।13।। ॐ ह्रीं लक्ष्मीसुख-विधायकाय क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय
श्री वृषभजिनाय अध्यं निर्वपामीति स्वाहा॥13॥
सम्पूर्ण-मण्डल-शशाङ्क-कला-कलाप शुभ्रा गुणास्त्रिभुवनं तव लङ्घयन्ति। ये संश्रितास्त्रिजगदीश्वर-नाथमेकं कस्तान्निवारयति संचरतो यथेष्टम्।।14॥ ॐ ह्रीं भूतप्रेतादि-भयनिवारणाय क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय
श्री वृषभजिनाय अध्यं निर्वपामीति स्वाहा।।14।
चित्रं किमत्र यदि ते त्रिदशाङ्गनाभिर्नीतं मनागपि मनो न विकार-मार्गम्। कल्पान्त-काल-मरुता चलिताचलेन किं मन्दराद्रि-शिखरं चलितं कदाचित्।।15।। ओं ह्रीं मेरुवन्मनोवकरणाय क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय
श्री वृषभजिनाय अयं निर्वपामीति स्वाहा।।15।
42