________________
त्वत्संस्तवेन भव-सन्तति-सन्निबद्धं पापं क्षणात्क्षयमुपैति शरीरभाजाम्। आक्रान्त-लोकमलि-नीलमशेषमाशु सूर्यांश-भिन्नमिव शार्वरमन्धकारम।।7। ऊँ ह्रीं सकलपापकुष्टनिवारणाय क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय
श्री वृषभजिनाय अध्यं निर्वपामीति स्वाहा।।7।
मत्त्वेति नाथ तव संस्तवनं मयेद मारभ्यते तनु-धियापि तव प्रभावात्।
चेतो हरिष्यति सतां नलिनी-दलेषु मुक्ता-फलद्युतिमुपैति ननूद-बिन्दुः।।8।। ऊँ ह्रीं अनेकसंकट संसारदुःख-निवारणाय क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय
श्री वृषभजिनाय अध्यं निर्वपामीति स्वाहा।।8।
जलकुसुम सुगन्धे-रक्षतैः दीपधूपैः। विविध-फलनिवेद्यैः-रर्चयामीह देवम्।
सुरनरवरसेव्यं दोहदानां वरेशं। शिवसुखपदधामं प्राणिनां प्राणनाथम्। ऊँ ह्रीं अष्टदल-कमलाधिपतये श्री वृषभजिनेन्द्राय अयं निर्वपामीति स्वाहा।।
भक्तामर स्तोत्र
(षोडस दलकमलपूजा) आस्तां तव स्तवनमस्त-समस्त-दोषं त्वत्सङ्कथापि जगतां दुरितानि हन्ति। दरे सहस्रकिरणः कुरुते प्रभैव पद्माकरेषु जलजानि विकासभाजि ॥9॥ ॐ ह्रीं सकलमनोवांछितफलदात्रे क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय
श्री वृषभजिनाय अध्यं निर्वपामीति स्वाहा।।9।
नात्यद्भुतं भुवन-भूषण भूत-नाथ भूतैर्गुणैर्भुवि भवन्तमभिष्टुवन्तः। तुल्या भवन्ति भवतो ननु तेन किं वा भूत्याश्रितं य इह नात्मसमं करोति।।10। ऊँ ह्रीं अर्हज्जिन-स्मरण-जिनसम्भूताय क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय
श्री वृषभजिनाय अध्यं निर्वपामीति स्वाहा॥10॥