________________
मन्ये वरं हरि-हरादय एव दृष्टा दृष्टेषु युषे हृदयं त्वयि तोषमेति। किं वीक्षितेन भवता भुवि येन नान्यः कश्चिन्मनो-हरति नाथ भवन्तरेऽपि।॥21॥ ओं ह्रीं सर्वदोषहर-शुभदर्शनाय क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय
श्री वृषभजिनाय अध्यं निर्वपामीति स्वाहा।।21॥
स्त्रीणां शतानि शतशो जनयन्ति पुत्रान् नान्यां सुतं त्वदुपमं जननी प्रसूता। सर्वा दिशो दधति भानि सहस्र-रश्मिं प्राच्येव दिग्जनयति स्फुरदंशुजालम्।।22॥
ओं ह्रीं अद्भुतगुणाय क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय
श्री वृषभजिनाय अध्यं निर्वपामीति स्वाहा॥22॥
त्वामामनन्ति मुनयः परमं पुमांस- मादित्य वर्णममलं तमसः पुरस्तात्। त्वामेव सम्यगुपलभ्य जयति मृत्यु। नान्यः शिवः शिवपदस्य मुनीन्द्र पन्थाः॥23॥ ओं ह्रीं सहस्र-नामाधीश्वराय क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय
श्री वृषभजिनाय अध्यं निर्वपामीति स्वाहा।।23॥
त्वामव्ययं विभुमचिन्त्यमसंख्यमाद्यं ब्रह्माण-मीश्वर-मनन्त-मनङ्ग-केतुम्। योगीश्वरं विदित योगमनेकमेकं ज्ञान-स्वरूपममलं प्रवदन्ति सन्तः।।24।। ओं ह्रीं मनोवांछित-फलदायकाय क्लीं महाबीजाक्षर सहिताय
वृषभजिनाय अध्यं निर्वपामीति स्वाहा॥24॥
हत्वा कर्मरिपून बहून् कटुतरान् प्राप्तं परं केवलं। ज्ञानं येन जिनेन मोक्षफलदं, प्राप्तं द्रुतं धर्मजम्।।
अर्पणात्र सुपूजयामि जिनपं श्री सोमसेनस्त्वहं।
मुक्ति श्रीष्वभिलाषया जिन विभो! देहि प्रभो वांछितम्।। ओं ह्रीं हृदयस्थित-षोडसदल-कमलाधिपतये श्री वृषभजिनाय अध्यं निर्वपामीति स्वाहा।
44