________________
अथधरस्यां दिशि धरणेन्द्रार्चनमाहस्वकीय वेगार्जित वायुवेग-मारूढ़मुत्तुंग कठोरकूर्मम्। पद्मावतीशं धरणेन्द्रमत्र, यजामि धात्री धरण प्रकीर्तिम्॥9॥ ऊँ आं क्रों ह्रीं हे धरणेन्द्र देव ! अत्र आगच्छ-आगच्छ इत्यादि। ॐ आं क्रों ह्रीं धरणेन्द्राय इदं अध्यं पाद्यं........गृहाण-गृहाण स्वाहा।
अथोर्ध्वायां दिशि सोम सन्मान्माहविदारितास्यं विकरालमूर्ति, चलच्चटाटोपमुदारसौर्यम्। सिंहं समारूढ़मदभ्रकान्तिं, सोमं समर्चाम्यथ रोहणीशम्।।10॥
ऊँ आं क्रों ह्रीं हे सोमदेव ! अत्र आगच्छ-आगच्छ इत्यादि। ऊँ आं क्रों ह्रीं सोमदेवाय इदं अध्यं पाद्यं........गृहाण-गृहाण स्वाहा।
अथ चतुः द्वारपालार्चनंकोदण्डकाण्डस्फुटदृष्टिमुष्टि, मरुद्भटोद्भव्यकथानुरक्तम्।
वेद्याः पुरोद्वारमिमामवन्तं सोमोप गृण्हाभ्युचितैर्भवन्तम्।।1।। ॐ आं क्रों ह्रीं धनुर्धराय अर-अर त्वर-त्वर हूं सोम! अत्र आगच्छ-आगच्छ इत्यादि।
ऊँ आं क्रों ह्रीं सोमाय इदं अध्यं पाद्यं........गृहाण-गृहाण स्वाहा।
यो दण्डिताराति समस्तदण्डं, दण्डंधरंश्चण्डसुरै परीतः।
रक्षत्यपाच्यं जिनयज्ञवेद्या द्वारं तमेनं यममर्चयामि।।2।। ऊँ आं क्रों ह्रीं दण्डधराय अर-अर त्वर-त्वर हूं यम! अत्र आगच्छ-आगच्छ इत्यादि।
ॐ आं क्रों ह्रीं यमाय इदं अध्यं पायं........गृहाण-गृहाण स्वाहा।
419