________________
अथ पश्चिमाया दिशि वरुणार्चनमाहभीमाहिपाशं मकरादिरूढं, मुक्तामयाकल्पविराजमानं। मनोरमस्त्रापरिवेष्ट्यमानं, जिनाध्वरेऽस्मिन् वरुण समर्चे ॥5॥ ॐ आं क्रों ह्रीं हे वरुण देव ! अत्र आगच्छ-आगच्छ इत्यादि । ॐ आं क्रों ह्रीं वरुणाय इदं अघ्यं पाद्यं..
गृहाण-गृहाण स्वाहा।
अथ वायव्यकोणे पवनार्चनमाह
महामहीजायुधं शोभितहस्तं, तुरंगमारूढ़मुदारशक्तिं। विलाशभूषान्वित वायुवेगी, सहासमेतं पवन यजामि॥6॥
ॐ आं क्रों ह्रीं हे पवनदेव ! अत्र आगच्छ-आगच्छ इत्यादि।
ॐ आं क्रों ह्रीं पवनाय इदं अघ्यं पाद्यं..
गृहाण-गृहाण स्वाहा।
अथ उत्तरदिशि कुबेरपूजनमाह
अनेनरत्नोज्वल पुष्पकाख्यं, विमानमारूह्य विभासमानं। धनादिदेवीसहितं वहन्तं, करेणशक्तिं धनदं यजामि॥7॥ ॐ आं क्रों ह्रीं हे कुबेरदेव ! अत्र आगच्छ-आगच्छ इत्यादि। ॐ आं क्रों ह्रीं कुबेराय इदं अघ्यं पाद्यं..
गृहाण-गृहाण स्वाहा।
अथ ऐशानकोणे ईशानदेवार्चनमाह
जटाकिरीटं वृषभादिरूढं, त्रिशूलहस्तं धवलोज्वलागम्। ललाटनेत्रं गिरिराजपूत्री, समेतमीशानमिहार्चयामि॥8॥ ॐ आं क्रों ह्रीं हे ईशानदेव ! अत्र आगच्छ-आगच्छ इत्यादि ।
ॐ आं क्रों ह्रीं ईशानाय इदं अघ्यं पाद्यं..
गृहाण-गृहाण स्वाहा।
418