________________
इति श्री जिनेन्द्र स्वस्ति मंगल विधानम् (पुष्पांजलिं क्षिपेत्) नित्याप्रकम्पाद्भुत-केवलौघाः, स्फुरन्-मनःपर्ययः-शुद्ध-बोधाः। दिव्यावधिज्ञान-बल-प्रबोधाः, स्वस्ति क्रियासुः परमर्षयो नः॥1॥
कोष्ठस्थ-धान्योपम-मेकबीजं, संभिन्न, संश्रोतृ-पदानुसारि । चतुर्विधं बुद्धि बलं दधाना, स्वस्ति क्रियासुः परमर्षयो नः॥2॥
संस्पर्शनं संश्रवणं च दूरा-दास्वादन-घ्राण-विलोकनानि। दिव्यात् मतिज्ञान-बलाद्-वहन्तः, स्वस्ति क्रियासुः परमर्षयो नः॥3॥ प्रज्ञा-प्रधानाः श्रमणाः समृद्धाः, प्रत्येक-बुद्धा दश-सर्व-पूर्वैः । प्रवादिनोऽष्टांग-निमित्त-विज्ञाः, स्वस्ति क्रियासुः परमर्षयो नः ॥4॥
जङ्घावलि-श्रेणि-फलाम्बु- तन्तु- प्रसून - बीजाङ्कुर - चारणाह्वाः। नभोऽङ्गण-स्वैर-विहारिणश्च, स्वस्ति क्रियासुः परमर्षयो नः॥5॥ अणिम्नि-द - दक्षाः कुशला महिम्नि, लघिम्नि - शक्ताः कृतिनो गरिम्णिः । मनो-वपु-र्वाग्-बलिनश्च नित्यं, स्वस्ति क्रियासुः परमर्षयो नः।।6।। सकाम-रूपित्व-वशित्व- मैश्यं, प्राकाम्य-मन्तर्द्धि-मथाप्ति-माप्ताः । तथाऽप्रतीघात-गुण-प्रधानाः, स्वस्ति क्रियासुः परमर्षयो नः ॥7॥
दीप्तं च तप्तं च तथा महोग्रं, घोरं तपो घोर-पराक्रमस्थाः। ब्रह्मापरं घोर-गुणं चरन्तः, स्वस्ति क्रियासुः परमर्षयो नः ॥ 8 ॥ आमर्ष-संर्वौषधय-स्तथाशीं विषं विषा दृष्टि-विषविषाश्च। सखिल्ल-विङ्-जल्ल-मलौषधीशाः, स्वस्ति क्रियासुः परमर्षयो नः॥9॥ क्षीरं स्रवन्तोऽत्र घृतं स्रवन्तो, मधु - स्रवन्तोऽप्यमृतं स्रवन्तः। अक्षीण संवास-महानसाश्च, स्वस्ति क्रियासुः परमर्षयो नः॥10॥
|इति परमर्षि-स्वस्ति-मंगल-विधानम् ।
374