________________
107. ऊँ ह्रीं अर्हं जगत्पालाय नमः
दिग्वासः प्रमुखैर्नित्यं, राजमानं सुनामभिः। शतप्रभैर्जिनं चाद्य-मष्टधाहं सदा यजे।।10। ऊँ ह्रीं दिग्वासादि अष्टोत्तरशतनामधारक वृषभाय पूर्णायं निर्वपामीति स्वाहा।
नमः
108. ऊँ ह्रीं अर्हं धर्मसाम्राज्यनायकाय
श्रीमज्जिनेन्द्र-मभिवन्द्य जगत् त्रयेशम्, स्याद्वाद - नायक-मनन्त-चतुष्टयार्हम्। श्रीमूल-सङ्घ-सृदृशां सुकृतैकहेतु-जैनेन्द्र-यज्ञ - विधि-रेष मयाऽभ्यधायि ॥1॥ स्वस्ति त्रिलोक-गुरवे जिन- पुंगवाय, स्वस्ति स्वभाव - महिमोदय-सुस्थिताय । स्वस्ति प्रकाश-सहजोर्जित-दृङ्गयाय, स्वस्ति प्रसन्न-ललिताद्भुत-वैभवाय॥2॥ स्वस्त्युच्छलद् विमल-बोध- सुधाप्लवाय, स्वस्ति स्वभाव-परभाव-विभासकाय। स्वस्ति त्रिलोक-विततैक-चिदुद्गमाय, स्वस्ति त्रिकाल -सकलायत-विस्तृताय।।3। द्रव्यस्य शुद्धिमधिगम्य यथानुरूपम्, भावस्य शुद्धि-मधिका-मधिगन्तु-कामः। आलम्बनानि विविधान्यवलम्ब्य वल्ग्न, भूतार्थ-यज्ञ-पुरुषस्य करोमि यज्ञम्॥4॥ अर्हत् पुराण-पुरुषोत्तम पावनानि, वस्तून्यनून- -मखिलान्ययय-मेक एव अस्मिन् ज्वलद्-विमल-केवल-बोध-वह्नौ, पुण्य समग्र-मह-मेकमना जुहोमि||5||
।इति पुष्पाञ्जलिं क्षिपामि।
श्री वृषभो नः स्वस्ति, स्वस्ति श्री अजित । श्री सम्भवः स्वस्ति, स्वस्ति श्री अभिनन्दनः। श्री सुमतिः स्वस्ति, स्वस्ति श्री पद्मप्रभः । श्री सुपार्शवः स्वस्ति, स्वस्ति श्री चन्द्रप्रभः। श्री पुष्पदन्तः स्वस्ति, स्वस्ति श्री शीतलः । श्री श्रेयांस स्वस्ति, स्वस्ति श्री वासुपूज्यः। श्री विमलः स्वस्ति, स्वस्ति श्री अनन्तः । श्री धर्मः स्वस्ति, स्वस्ति श्री शान्तिः । श्री कुन्थुः स्वस्ति, स्वस्ति श्री अरहनाथ। श्री मल्लिः स्वस्ति, स्वस्ति श्री मुनिसुव्रतः । श्री नमिः स्वस्ति, स्वस्ति श्री नेमिनाथ। श्री पाश्वः स्वस्ति, स्वस्ति श्री वर्द्धमानः ।
373