________________
ॐ ह्रीं गणधर चरणेभ्यः जलं निर्वपामीति स्वाहा। ऊँ ह्रीं गणधर चरणेभ्यः चंदनं निर्वपामीति स्वाहा। ऊँ ह्रीं गणधर चरणेभ्यः अक्षतान् निर्वपामीति स्वाहा। ऊँ ह्रीं गणधर चरणेभ्यः पुष्पं निर्वपामीति स्वाहा। ॐ ह्रीं गणधर चरणेभ्यः चरूं निर्वपामीति स्वाहा। ऊँ ह्रीं गणधर चरणेभ्यः दीपं निर्वपामीति स्वाहा। ॐ ह्रीं गणधर चरणेभ्यः धूपं निर्वपामीति स्वाहा। ॐ ह्रीं गणधर चरणेभ्यः फलं निर्वपामीति स्वाहा। ॐ ह्रीं गणधर चरणेभ्यः अयं निर्वपामीति स्वाहा।
अथ स्तुति
ये सर्वतीर्थप्रभवा गणेन्द्राः सप्तर्द्धयो ज्ञानचतुष्टयाढ्याः । तेष पदाब्जानि जगद्धितानां, वचोमनोमूर्धसु धारयामः।।1।। तपोबलाक्षीण रसौषधर्द्धन, विज्ञानऋद्धीनपि विक्रियर्द्धन। सप्तर्द्धि-युक्तानखिलानृषीन्द्रान, स्मरामि वन्दे प्रणमामि नित्यम्। सर्वेषु तीर्थेषु तदन्तरेषु, सप्तर्षयो ये महिता बभूवुः। भवाम्बुधेः पारमिताः कृतार्थाः, भवन्तु नस्ते मुनयः प्रसन्नाः॥3॥ ये केवलीन्द्राः श्रुतकेवलीन्द्रा, ये शिक्षकास्तुर्यतृतीयः बोधाः। सविक्रिया ये वरवादिनश्च, सप्तर्षिसंज्ञानिह तान् प्रवन्दे ॥4॥ प्रमत्त मुख्येषु पदेषु सार्ध-द्वीपद्वये ये युगपद् भवन्ति। उत्कर्षतस्तान्नवकोटि संख्यान्, वन्दे त्रिसंख्यारहितान् मुनीन्द्रान् ॥
|इति महर्षिपर्युपासन विधिः ।
346