________________
अथ स्तुतिः नमस्ते पुरुषार्थाय, परां काष्ठाम् अधिष्ठित। सिद्ध भट्टारकस्तोम, निष्ठितार्थ निरञ्जन।।1।। स्वप्रदाय नमस्तुभ्यं, अचलाय नमोस्तु ते। अक्षयाय नमस्तुभ्यं, अव्याबाधाय ते नमः॥2॥ नमस्तेऽनन्तविज्ञान-दृष्टि-वीर्यसुखास्पद। नमो नीरजसे तुभ्यं, निर्मलाय तु ते नमः॥3॥ अच्छेद्याय नमस्तुभ्यं, अभेद्याय नमो नमः । अक्षयाय नमस्तुभ्यं, अप्रमेयाय ते नमः॥4॥ नमोस्त्वगर्भवासाय, नमो गौरवलाघव। अक्षोभ्याय नमस्तुभ्यं, अविलीनाय ते नमः॥5॥ नमः परमकाष्ठात्मात्म-योगरूपत्वमीयुषे। लोकग्रवासिनेतुभ्यं, नमोनन्त गुणाश्रय॥6॥ निःशेषपुरुषार्थानां, निष्ठां सिद्धिमधिष्ठित। सिद्ध भट्टराकब्रात, भूयो भूयो नमोस्ते ते ||7|
विविधदुरितशुद्धान्, सर्वतत्त्वार्थ बुद्धान, परमसुखसमृद्धान युक्तिशास्त्राविरुद्धान्। बहुविध-गुणवृद्धान्, सर्वलोक- प्रसिद्धान्, प्रमितसुनयसिद्धान्, संस्तुवे सर्वसिद्धान्।।
।इति सिद्ध भक्ति-विधानम्।
अथ महर्षि पर्युपासन विधिः
ये येऽनगारा ऋषयो यतीन्द्रा, मुनीश्वरा भव्य भवद्व्यतीताः। तेषां समेषां पदपंकजानि, सम्पूजयामो गुणशीलसिद्ध्यै।।
ऊँ ह्रीं सम्यग्दर्शनज्ञानचारित्र पवित्रतरगात्र चतुरशीतिलक्षगुण-गणधरचरणाः! आगच्छ आगच्छ संवौष्ट्।
ऊँ ह्रीं सम्यग्दर्शनज्ञानचारित्र पवित्रतरगात्र चतुरशीतिलक्षगुण-गणधरचरणाः! अत्र तिष्ठ तिष्ठ ठः ठः।
ऊँ ह्रीं सम्यग्दर्शनज्ञानचारित्र पवित्रतरगात्र चतुरशीतिलक्षगुण-गणधरचरणाः ! अत्र ममः सन्निहितो भव भव वषट्।
345