________________
श्री भक्तामर विधान (आचार्य श्री सोमसेन कृत)
पूर्व पीठिका श्रीमन्त-मानभ्य जिनेन्द्रदेवं, परं पवित्रं वृषभं गणेशं। स्याद्वादवारां निधिचन्द्रबिम्ब, भक्तामरस्याचंनमात्मसिद्ध्यै।।
वक्ष्ये सुवीरं करुणार्णवं, च, श्रीभूषणं केवलज्ञानरूपं। अलक्ष्यलक्ष्यं प्रणमाम्यलं वै, भक्तामरं सिद्धवधूप्रियं वै।।
आदौ भव्यजने नैवं, गत्वा चैत्यालयं प्रति। नन्तव्यः परया भक्त्या, सर्वज्ञः शुद्ध लक्षणः।।
ततः सद्गुरु-मानम्य, विनयानत-चेतसा। प्रार्थना च कार्या भव्यैः, पूजायै भावशुद्धितः।। दीयतां सुगुरो ! आज्ञा, पूजां कर्तुशुभां वरं। इत्युक्ते गुरुणाभाणि, विधिर्भक्तामरस्य वै।। श्रीखण्डागुरुःकर्पूर, नारिकेल-फलानि च। प्रचुराक्षस-पुष्पौद्या-नक्षताञ्चरुसञ्चयान्।। मेलयित्वा प्रमोदेन, चन्द्रोपमध्वजादिकान्। दीपान् धूपान् महावाद्य, गीतराव विराजितान्।।
तोरणैर्मणि-सन्नद्धे, रुज्ज्वलैश्चामरैस्तथा। मण्डपैः पञ्चवर्णेश्च, द्रव्यैर्मङ्गलसूचकैः।। वसुदेव-मिते कोष्ठे, वर्तुलाकार-मण्डिते। रचयेद् वेदिकां तत्र, श्रीजिनार्चन-हेतवे।।
33