________________
नातिवृद्धो न हीनाङ्गो, दुष्कुलो न च बालकः।
मलिनो न न मूर्खश्च, सर्वव्यसन वर्जितः।। कलाविज्ञान-सम्पूर्णो, वाचालः शास्त्रवाक्पटुः।
पण्डितो मृज्यते तत्र, करुणारसपूरितः।। सर्वाङ्गसुन्दरो वाग्मी, सकलीकरणक्षमः।
स्पष्टाक्षरश्च मन्ज्ञो, गुरुभक्तो विशेषतः।। श्रावकान् श्राविकाश्चैव, योगिनश्चर्यिकास्तथा। चतुर्विधं पर संघ, समाह्वयेत् सुभक्तितः।।
पूजा करणशुद्धेन, कार्या सर्वज्ञसद्मनि। ततोऽर्चनं श्रुतस्यापि, गुरोः पादार्च ततः। कार्य सर्वज्ञ-पूजायाः, प्रारम्भे सर्वसिद्धिदम्। अनेन विधिना भव्यैः, पूजा कार्या निरन्तरम्।। रच-यन्नर्हतां पूजा-पीठिकां पुण्यमाप्युयात्। फलन्ति सर्व-कार्याणि, विघ्नराशिः क्षयं ब्रजेत्।।
॥इति पीठिका समाप्ता।।
श्री वृषभदेवस्तुतिः
(स्रगधरा-वृत्तम्) श्री मद्देवेन्द्रवन्द्यौ, जिनवरचरणौ, ज्ञानदीपप्रकाशौ। लोकालोकावकाशौ, भवजलधिहरौ, संततं भव्यपूज्यौ।। नत्वा वक्ष्ये सुपूजां, वृषभ जिनपतेः प्राणिनां मुक्तिहेतुं। यम्मात्संसारपारं, श्रयति स मनुजे, भक्तियुक्तः सदाप्तः।।
34