________________
६६.
६७.
६८.
६९.
७०.
(७१०)
गौरो रुपधरो दृढः परिवृढः स्थूलः कृशः, कर्कशः ।
गीर्वाणो मनुजः, पशुर्नरकभूः पंढः पुमानंवाना |
मिथ्यात्वं विदधासि कल्पनमिदं मूढो विबुध्यात्मनो ।
नित्य ज्ञानमयस्वभावममलं सर्वव्यापायच्युतम् ॥७०॥ तत्त्वभावना गा. ७०,
पृ. १८३
सर्वारंभ कषाय संगरहितं शुद्धोपयोगोद्यतम् ।
तद्रूपं परमात्मनो विकलिलं बाह्ययव्यपेक्षातिगं ॥
तन्निः श्रेयसकारणाय हृदये कार्यं सदा वापरम् ।
कृत्यं क्वापि चिकीर्षवो न सुधियः कुर्वन्ति तदध्वंसकं ॥ ७१ ॥
जो जागर्ति शरीरकार्यकरणे वृत्तिं विधत्ते यतो ।
हेयादेयविचारशून्यहृदयो नात्मक्रियायामसौ ॥
स्वार्थं घुमना विमुंचतु ततः शश्वच्छरीरादम् ।
कार्यस्य प्रतिबंध न यतते निप्पत्तिकामः सुधी ॥ ७२ ॥ तत्त्वभावना गा. ७१,
७२ पृ. १८५, १८८
स्वस्थेऽकर्मणि शाश्वते विकलिले विद्वज्जनप्रार्थित |
संप्राप्ये रहसात्मना स्थिरधिया त्वं विद्यमाने सति ||
बाह्यं सौख्यमवाप्तुमंत विरसं किं खिद्यसे नश्वरम् ।
रे सिद्धे शिवमंदिरे सति चरौ मा मूढ भिक्षां भ्रमः ॥ ७४ ॥ तत्त्वभावना गा. ७४, पृ.
१९२
कर्वाणः परिणाममेति विमलं स्वर्गापवर्गश्रियं । प्राणी करमलमुग्रदुःखजनिकां श्वभ्रादिरीतं यतः।। गृहानाः परिणाममाद्यमपरं मुचंति संतस्ततः ।
कुर्वन्तिह कुतः कदाचिदहितं हित्वा हितं धीधना ॥ ७७॥ तत्त्वभावना गा. ७७. पृ. १९९
नरकगतिमशुद्धैः सुंदरैः स्वर्गवासं ।
शिवपदमनवद्यं याति शुद्धैरकर्मा || स्फुटमिह परिणामैश्चेतनः पोष्यमाणै ।