________________
परिशिष्ट ५ भैरवाष्टकम् ।
-०]एकं खट्वाङ्गहस्तं पुनरपि भुजगं पाशमेकं त्रिशूलं
खड्गं हस्ते कपालं डमरुकसहितं वामहस्ते पिनाकम् । चन्द्रार्क केतुमालां विकृतनरशिरःसर्पयज्ञोपवीतं
कालं कालान्धकारं मम हरतु भयं भैरवः क्षेत्रपालः॥१॥ नीलं जीमूतवर्ण सकलशतमयं भैरवं क्षेत्रपालं
रुद्रं रुद्रावतारं ज्वलितशिखशिखं रौद्रके शंखदंष्ट्र। भीमाङ्ग भीमनादं कलितकलरवं वन्द्यपादं त्रिलोक्या
___ ज्वालामालाकरालं मम हरतु भयं भैरवः क्षेत्रपालः॥२॥ कैलाशे मेरुशृंगे दिशिदिशिगहने दैत्यनैलानिवासे
पाताले मृत्युलोके जलनिधिपुलिने कानने सर्वतीर्थे । सौम्ये सूर्याधिवासे ग्रहफणिनिलये द्वीपद्वीपान्तरेषु
सर्वस्थानेषु पूज्यं मम हरतु भयं भैरवः क्षेत्रपालः ॥३॥ सिद्धान्ते कूलमार्ग पथि कुलिकमते मत्रतत्रे समस्ते
देवे ब्रह्मावतारे विविधजिनमते सर्वशास्त्रप्रसिद्ध । खगं पातालहस्तं वररसगुटिकामञ्जनं पादले
सर्व कर्तुं समर्थ मम हरतु भयं भैरवः क्षेत्रपालः॥४॥ हुंकारैरनादैश्चलितवसुमती सागरं मेरुशृंगं
ब्रह्मांडं ब्रह्मखण्डं स्फुरितकहकहारावरौद्राट्टहासे। खड्पातालमूलं वरुणकसहितं पाशखट्वाङ्गहस्तं
हां ही हूं मोहरूपं मम हरतु भयं भैरवः क्षेत्रपालः ॥५॥ कंकालं कालरूपं कलकलसहितं भूतवैतालनाशं
हां ही ही मूमूर्तितं घघघघघटितोद्गाररौद्रादिमत्रैः।