________________
પરવ
મહાપ્રાભાવિક નવસરણ.
भूतैः प्रेतैः प्रभूतैरुपशमतमहायक्षरक्षःपिशाचैः
ह्रां ह्रीं हूं सर्वपूज्यं मम हरतु भयं भैरवः क्षेत्रपालः ॥६॥ ब्रह्मा विष्णुश्च रुद्रासुरसरिदमरा सोमसूर्याग्निरूपा
आकाशे वायुभूमिर्जलमितिसकलं यस्य मूर्तिस्वरूपम् ॥ बाल्येनं नाहवेत्तं सकलशिवमयं सर्वरूपं प्रशान्तं
सर्वं ज्ञानं प्रसिद्धं मम हरतु भयं भैरवः क्षेत्रपालः ॥७॥ क्षेत्रे पीठे प्रपीठे त्रिभुवननिलये द्वीपचण्डे प्रचण्डे
चामुण्डाविनमंत्रीगणपतिसहितैः प्रेतभूतैः प्रसिद्धैः । राज्ञो वश्यंकराणो च सकलकुशलैः मत्रतत्रैः समस्तैः
सर्व कल्याणहेतुर्मम हरतु भयं भैरवः क्षेत्रपालः ||८|| सर्वपापहरं पुण्यं स्तोतव्यं भैरवाष्टकम् । ब्रह्मराक्षसनाशाय व्याध्युपसर्गनाशनम् ॥९॥
अपुत्रो लभते पुत्रान् बद्धो मुच्येत बन्धनात् । त्रिसन्ध्यं पठति यस्तु सर्वसिद्धिमवाप्नुयात् ॥१०॥ ॥ ॐ ह्रीँ बटुकाय आपदुद्धारणाय कुरु कुरु बटुकाय ह्रीं स्वाहा ॥
卐