________________
શ્રીસ'તિકરસ્તવાનાય.
૨૫૧
चैतद् स्तोत्रं गाथाद्वयं च बहु बहुतरं बहुतमं च प्रत्यहं स्मरति । यस्य चास्मिन् स्तोत्रेऽस्य स्तोत्रस्य प्रणेतरीं च बह्नी बहुतरा बहुतमा च भक्तिरास्था च स्यात् । य(त) स्य भृश भृशतरां भृशतमां च स्फुरतीति तत्वं ।
यस्य च रोगिणो दोषिणो वा गात्रभंगे जाते तस्मिन्नेतन्न प्रयुज्यते प्रयोगेऽपि गुणोऽनैकांतिक इत्यादेशः ।
यस्य रोगिणो दोषिणो वा आयुः प्राचुर्य सद्भावेन रोगो दोषो वा साध्यः स्यात् तस्य सम्यग् विधिनैतत्प्रयोगे सद्यो गुणः स्यादग्रतः । पुनरेतत्प्रयोगे च शनैः शनैः गुणवर्धते । अपरस्य तु सकृद्गुणः समाधानादिः स्यात् । परं न वर्धते नापि च स्थिरः स्यादिति रोगा (ग) दोषयोः साध्यतायुः सद्भावपरिज्ञानोपायोऽपि ।
यस्य च सम्यग् विधिना सर्वप्रकारैरेतत् प्रयोगेऽपि गुणो न जातस्तस्य प्रायोन्यस्तोत्रमंत्रयंत्रादिभिर्बहुभिरपि प्रयुक्तैः सुदुर्लभः ।
एतस्य संप्रत्यत्र विषये सर्वोत्कृष्टमहिमात्वादित्य ? साध्यता प्रत्ययः । दोषे धुवो गुणः संपूर्णोऽपि च । रोगे तु नैकांतिकः । सर्व इति विधिः प्रयत्नसाध्यो चेति ।
यत्र चास्य प्रणेता स्मरणपरश्च तिष्ठति कियत् समयं स्थितो वा स्यात् । तत्र प्रायो दैवतं मरकमांद्यं नोत्पद्यते । मिथ्यात्वादिदेवताद्यर्चनैः, तदर्थहिंसाकरणैः तत्स्तोत्रगुणनैः तत्वज्ञादिभिस्तु कदाचिदुत्पद्यते तदापि सुसाधं स्यात् । सुखेन च प्रतीकारो लगतीत्यर्थः । अन्यत्र त्वसकृदुत्पद्य (ते) चेति । दुर्वारं दुःसाधं च स्यादिति । पट्टिकाकांस्यभाजनादौ लिखित्वा पूजादिना शुभफलं स्यात् ।
कदाचित् कोप्येतान् मंत्रान् कथमपि ज्ञात्वा जपति न तु स्तोत्रं तस्य तथा न गुणो यथा स्तोत्रजापेन देवतावरकारत्वात् गुणस्येति ।
एतत् गीतेनापि श्रुतेन शाकिनीगृहोतो म्रियते, मुच्यते च । शाकिन्यादि बहुगा नालायादिनेति ।
इति बहुदेशेषु शक्तिक्षतग्रंथिविकारज्वरादि मरकमांद्येन भरतक्षेत्रे दुःषमायामपि श्रीधर्माधारभूतश्रीसंघलोकहानिं दृष्ट्वा समुत्पन्नखेदकरुणादिभावैः श्रीपरमगुरुपूज्यश्रीसोमसुंदरसूरिपादप्रसादलब्धश्री सूरिमंत्र साधनाम्नायैर्बहुतपोध्यानादिश्रीसूरिमंत्रसाधनप्रसादितश्रीसूरिमंत्राधिष्ठायकप्रदत्तवरैः श्री मुनिसुंदरसूरिभिः श्री संघस्य मरकमांद्याद्युपद्रवनिवृत्यारक्षार्थ कृतं सर्वदेशेष्वाराधकानां मरकाद्युपद्रवनिवृत्या जगतः प्रकटप्रख्यातनिष्प्रतिमप्रभाववैभवस्य श्रीशांतिकरस्तोत्रराजस्य किंचिदाम्नाय प्रकटनमिदं मिथ्याहशामधर्मधियां शौचसदाचाररहितानां च शौचादिविकलानां बालानां तादृग् स्त्रीणामपि च न देयमिदम् । सदाचारवतां सर्वाभ्युदय हेतुरिति ॥
साधना:----
पर्युषणानो अट्टम करी १०८ वार संर्तिकरं संपूर्ण गणवुं । प साधना पछी वार १०८ बीजी त्रीजी गाथा स्तोत्रनी गणवी सही रोग ज्वरादिक जाय महाप्रभावक ॥ इति श्रीसंतिकरस्तोत्राम्नायः ॥