________________
यत एव शिवं गतवान् भगवानत एव हि बिम्बगतो विहितः । अभवस्य भवेद् भजना भवहृत् किल सूत्रपदैरिव मूर्तिनुतैः ॥३७॥
प्रियया खलु चित्रकलाकृतया प्रतिबोधमुपैति रतिर्विशदा । जडभोज्यरसैरपि जीवमनो मदमेति न किं विविधैस्सहसा ॥३८॥
असुघातदुराशयसंवलिता कृतयोऽघविनिर्मितयो नियतम् । तदसंवलितास्तु शुभाः कृतयो बहुपुण्यकरा इति बोध्यमिदम् ॥३९।।
यतनासहिता करणिर्भवति स्वकरूपवधो लघुदोषयुतः । अनुबन्धवधस्तु किलाऽयतनाजनितो न हि पूजनया क्रियते ॥४०॥
पवनादिकजीववधायिणी कथमाद्रियते श्रमणैविहृतिः । सलिलादिवदेव भवेन्मरुतामपि जीवविराधनमत्र न किम् ॥४१॥
धृतसंयम एष तनोतु ततस्तनुचालनकर्मविसर्जनिकाम् । स्थिरदेह उपोषितमात्रतपा गतिमेतु परामपि शीघ्रमयम् ॥४२॥
७४
श्रीमाणिभद्रमहाकाव्यम् ४