________________
कृतभीष्मतमोष्मतनूत्तपने समये त्रिकसङ्गतिरुत्तमवाग् । जननीप्रियनि:स्वनशीतरसैरुपयातवतीच्छितजोषगतिम् ॥३१॥
तव वाचमतर्कितत्त्वयुतामनुपीतवती कथयामि किम् । तव संस्करणं मयकैव कृतं क्षतिरत्र ममैव तव क्षतिसु ॥३२॥
सुकृतार्जनमात्मनि साक्षिकतामनुपेत्य सतां न भवेद् बलवत् । न पराश्रयितां भजते गुणवान् विशदीकृतमाशयमारचयन् ॥३३॥
मसिकारचितैर्जडपत्रगतैमैतिजागरणं मतमक्षरकैः । सुरसन्निधिभिर्बहुमन्त्रपदैः प्रतिमास्वपि जीविततामननम् ॥३४॥
प्रतिमाऽऽकृतिरस्ति गुणस्मरणादुपयोगवती रतिरोषजये । उपमावदिहैकगुणस्मरणान्न जडत्वमुखस्मरणस्य भयम् ॥३५॥
मृतकान्त्यविधावपि जीविततास्मरणेन विषादमतिर्भवति । भगवत्यपि मूर्तिगते समताऽऽ कलनेन प्रसादमतिर्भवति ॥३६॥
श्रीमाणिभद्रमहाकाव्यम् ४