________________
विरतेष्वरविन्दसुलोचनया निजपुत्रवचस्सु मनःक्लमिषु । लघु निश्वसितेन समुत्तरितं वचनोत्तरतामिव दुःखमगात् ॥२५॥
विमलाक्षियुगे स्थिरमश्रुजलं प्रससार न कान्तकपोलपटे । प्रतिबिम्बभयादिव पुत्रतनोः प्रतिमापरिहारणपापमतेः ॥२६।।
क्षणधोरणिरैदुपशान्तरवैन हि किञ्चिदभूद् वचनोच्चरणम् । किमु शब्ददलैः परिवाररसक्षयकारणताऽवगता स्वगता ॥२७।।
चलितोद्दिनकालमरुल्लहरी दहमानरवेरनुजेव गृहे । रजसामुपवाहिकयेव तया रचिताऽसमताऽखिलसत्त्वतनौ ॥२८।।
पवनैर्जवनैर्भवनैकवने घटिता घनघोरघटाध्वनयः । विकटोत्पतदावरणावलिभिमिथआहतिजङ्गमकाररिभिः ॥२९॥
अनिलोत्कटकम्पितपत्रशिखातरुताण्डवनादपरम्परया । गृहवाटत आगतया भवने जलधिप्लवघोषणयोपमितम् ॥३०॥
श्रीमाणिभद्रमहाकाव्यम् ४