________________
अथ मन्त्रपदैः परमात्मवती प्रतिमाऽपि भवेदिति चेन्न यतः । स्वयमेव न मन्त्रनुतेन भजन् विभुतामुपले न हि धातुमलम् ॥१९॥
परिपूर्णमतेश्च समग्रदृशः कथनानि तथा रचनानि वृथा । विमलात्मदशामधियातवतां स्मरणेन हि नाशमुपैति भवः ॥२०॥
न हि वाग्घटना न हि देहरयो न हि चक्षुषि काचन पक्ष्मगतिः । प्रतिभाप्रतिभाववियोगवति प्रभूताधियमत्र वहामि कथम् ॥२१॥
मुखवस्त्रसमावृतवक्त्रममुं विशदागमपाठरतं तनुजम् । यदि धर्मविहीनमवैषि तदा तव भावसमर्चनमस्तु कुतः ॥२२॥
मम पापपराहरणाहरिणी त्वमसीत्यहमर्चनजातमघम् । परिहत्य विशोधितकर्ममल: तव दु:खकरोऽभवमद्य कथम् ॥२३।।
अहमहणयाऽपि विना विदधे समतागुणसाधनमात्मकृते । वनितावलिनर्तनकेन विना स्वरवादनमप्यतिमोदकरम् ॥२४॥
श्रीमाणिभद्रमहाकाव्यम् ४