________________
वचोभिरात्मानमिवार्पयन्ती ननाम सा यातवती विरामम् । समर्थिततद्वचनो धनी सः तया समं मातृसमक्षमायात् ॥५५॥
विनीतयोर्मस्तकयोर्जनित्री करद्वयीं सा व्यमुचत् पवित्राम् । सुते च वध्वां च समानचित्तं निदर्शयन्ती निजमात्मनीनम् ॥५६॥
निजाङ्गनावेदनयाऽर्तिशाली नतः समापृच्छदुदन्तमस्याः । व्यथाहतो मातृमुखं ददर्श जलाल्पतायां शशिनं यथाऽब्धिः ॥५७।।
व्यलोक्यतायं तनुजो जनन्या विगोपितान्तर्व्यथया सतोषम् । नदीव सा निर्झरसङ्गमेन परं प्रमोदं समवाप तेन ॥५८॥
जगाद सा पुत्र तवाऽऽश्रयेण पुराणि देशस्य विकासभाञ्जि । ममाऽऽश्रयेऽसि प्रगुणो महस्विन् ! अनन्तपुण्यं तदिदं मदीयम् ॥५९॥
तवैव पृच्छासु रतिर्ममाऽस्ति तव प्रशंसासु कृतार्थताऽस्ति । तवोन्नती मोदमहं वहामि सुतेषु सर्वस्वमिवास्ति मातुः ॥६०।।
श्रीमाणिभद्रमहाकाव्यम् ३