________________
भवान् यथा वेत्ति मनो मदीयं तथा स्फुरदर्शन ! वेद्मि नाहम् । कथं नु कुर्यां भवतोऽपमानं त्वयाऽवबुद्धस्य निदर्शनेन ॥४९॥
सति त्वयि स्वर्गमिहैव मेऽस्ति त्वया विना नारकदुःखमत्र । अवेहि चित्तं भवदेकनिष्ठं सुयोग्यहेतुप्रथितव्यथार्तम् ॥५०॥
त्वदेकचिन्तार्चितचेतसश्चेत्तमोऽवलेपश्चिरदुःखदायी । कलङ्कमेतन मदीयमस्ति तदस्ति कस्येति च चिन्तय त्वम् ॥५१॥
वसन्ति नेत्रेषु मदीयभाषाः सुमस्य पत्रेषु सुवासितेव । त्वया विनाऽवैतु परः कथं तां मधुव्रतेनेव सुगन्धधाराम् ॥५२॥
त्वदङ्गणे कुञ्जरराजकुम्भजलैविनिधीतरजस्यहं चेद् । भवेयमेषा किल रङ्गरेखा तदापि सौभाग्यसुखं मम स्यात् ॥५३॥
हृदि त्वदीये प्रभवन्ति चिन्ता मया कृतास्ताः कृपया सहस्व । व्यथामहं मातृपदारविन्दे स्थिता जगामेति विदाङ्कुरुष्व ॥५४।।
श्रीमाणिभद्रमहाकाव्यम् ३