________________
तवाङ्गमुष्णं हृदयानुतापैरभाषितामाश्रितमास्यमस्ति । ममाङ्गमास्यञ्च तवानुकारर्निबध्यतामित्थमिवेच्छसि त्वम् ॥३७॥
तवाश्रुबिन्दुप्रतिबिम्बितानि मम स्वरूपाणि निभालय त्वम् । ममैव चित्तस्य विखण्डितस्य मयोपसेव्ये ! शकलानि सन्ति ॥३८॥
त्वदीयदुःखाऽऽकलनेन चित्ते ममाऽभवद् दुःखमवर्णनीयम् । ततोऽधिकं संप्रति दुःखहेतुमजानतो मेऽस्ति तवैव भर्तुः ॥३९॥
तवार्चनीयौ पितरौ कथं स्तः ? कथं कुमार्यस्तव सन्ति सख्यः ? । अवज्ञया केन कदाऽसि दूना ? किमस्ति वाञ्छा तव काचिदूना ? ॥४०॥
गृहादमुष्माद् भगवत्कृपाभिविनिर्गतं भामिनि ! दुःखमात्रम् । प्रिये ! तवोत्सङ्गमुपागतेन भविष्यचिन्तानिहतोऽस्मि तेन ॥४१॥
भवन्ति दुःखानि मनःकृतानि परो निमित्तीभवति प्रबुद्धे ! । मनःस्थली मार्जय मार्दवेन क्षमाधनेनाऽर्जय शुद्धसौख्यम् ॥४२॥
श्रीमाणिभद्रमहाकाव्यम् ३