________________
त्वदक्षिकान्तिं परिपायिनो हि प्रसन्नता मे सहजाऽस्खलन्ती । त्वदश्रुभिधौंतसुखस्य मेऽथो विधिश्शरण्योऽस्ति किमत्र कुर्वे ॥३१॥
तवाधराणां मधुरे रसेऽस्त्रैनिधीयते क्षारजलानि हन्त ! । स्वकीयसौन्दर्यमयि त्वमेवं विसर्जयन्ती न पुराऽसि दृष्टा ॥३२।।
कपोलयोरुज्ज्वलयोः शुभाङ्गि ! तवाक्षिनीराणि ननु व्रजन्ति । शशाङ्कबिम्बग्रसनाय बद्धैः सगोत्रतां राजततारजालैः ॥३३॥
विनाऽप्यलङ्कारमिहाऽऽस्यशोभा तवाऽस्ति नीररपि वर्धते सा । परन्तु भावास्तव वेदनानां व्यथानुबद्धं तनुते मनस्कम् ॥३४॥
विमर्शनानि हृदयेन चेतस्तनोति ते देवि ! निरुद्धवाचः । सकम्पवक्षोजनिपातितानि जलानि तस्मादविरामभाञ्जि ॥३५॥
वचोनिबद्धं न भवेद् यदेव तदीक्षणेङ्गैर्वदसि प्रिये त्वम् । किमस्ति नेत्रैरपि नोद्यते यद अभदरे ! किं कथय प्रिये ! माम् ॥३६।।
श्रीमाणिभद्रमहाकाव्यम् ३