________________
४६
शुकस्तु चञ्च्वा धृतधातुदण्डः स्वपक्षनिस्ताडितपञ्जरस्तम् । अवेक्ष्य रागातिशयादुदग्रं चकार चित्कारमनेकवारम् ॥१९॥
मुखाग्रकेशा चलमानकर्णा करञ्जनेत्रैरमुमीक्षमाणा ।
धरालुठत्पुच्छवती सुमन्दं जगाद मार्जारकनी किमेनम् ? ॥२०॥
जहावथाऽऽलिन्द्रपदानुपाताद् विहङ्गिकां दासगणं ददन् स्वम् । सतां सदा त्यक्तिभिरेव दानै
स्समं समाख्या बत भिन्नशब्दैः ॥ २१ ॥
स देहलीमैच्चरणानुचारैर्व्यधादिहामुष्य मुदा प्रसूनैः । सधर्मिणी स्वागतमादरेण महेद् वसन्तर्तुकलैव माघम् ॥२२॥
गतश्रमे श्रेष्ठिनि धौतपादे पटान्तराधायिनि भोजनार्थम् । निमन्त्रणायाऽस्य वधूस्समायात् महान् हि मानव्यसनेन बद्धः ||२३||
रसाकुलं स्नेहमयं मनोज्ञं
सुदर्शनं पात्रनियोजितञ्च । अवाप्य भोज्यं स्वजनेन तुल्यं परां स तुष्टिं समवाप धन्यः ||२४||
श्रीमाणिभद्रमहाकाव्यम् ३