________________
४४
समुद्धतैः पादगतैर्भुजिष्याः प्रकम्पयन्तो बहु मार्गभागान् । अचालितस्कन्धयुगैरकम्पं तमावहन्तः कुसृतिं व्यकुर्वन् ॥१३॥
गवाक्षिकास्थायिवराङ्गनानां मनांसि नेत्राणि वचांसि जहे । स्मरन्ति तं नेतरदक्षिभागे नयन्ति ता मुग्धतयैव मूकाः ॥१४॥
जयध्वनिस्तोमसमर्थ्यमानः प्रयातवानेष महाट्टमार्गम् । गृहाङ्गणासन्नगते च तस्मि - न्नमन्दमुच्चावचघोषणाऽभूत् ॥१५॥
अमुष्य वर्धापनमक्षतानामजस्त्रवृष्ट्या परिवारकन्याः । अकुर्वताऽऽयातमिवावलोक्य दिशास्त्रियश्चक्रधरं प्रमोदात् ॥ १६ ॥
स यावदाक्रीडमियाय तावत्प्रियं जगौ पालितकोकिलालिः । घनेषु पर्णेषु तिरोहिताऽपि प्रतिस्वर्गेहमियं विवेश ॥१७॥
विलासिचूडाचलितं वितन्वन् स्वबर्हविस्तारणकौतुकेन । विलोकयन् श्रेष्ठिनमात्मभावैमन्त्रयन्नृत्यविधौ मयूरः ॥ १८ ॥
श्रीमाणिभद्रमहाकाव्यम् ३