________________
३८
भागधेयमिव सर्वसौख्यकृत् साहचर्यमनयाऽनुभावयन् । विक्रियाविरहितैरयं सुखैः स्वर्गलोकमतिशेत उत्तमैः ॥४३॥
नीतिमान् करुणया वशंवद आत्मचिन्तनपरस्समाधिभाग् । मूर्तिमानिव च धर्म आर्हतः श्रावकेषु मुकुटस्थतां गतः ॥ ४४ ॥
सूर्याणामिव कोटिभिर्विरचितं तेजस्तदीयं महत् कारुण्यैरकलङ्कमस्ति यदतो दाहो न केषाञ्चन । एवं पुष्पकरण्डिनीजनमुखैरेकाग्रमालोकितः प्रेम्णामुत्सवमावहन् समभवत् साक्षात् स पुण्योदयः ॥ ४५ ॥
श्रीमाणिभद्रमहाकाव्यम् २