________________
वास्तवानुगुणितां विचारणामादरेण हृदि धारयत्यसौ । कल्पनामपि च भावनामपि वास्तवादपगतां न धारयेद् ॥३७॥
कार्यनिर्णयमयं विचारितैलक्षशो वितनुते सुनिश्चितम् । तस्य चान्तमविचारितैः फलैरानयत्यनवधिं गतवरः ॥३८॥
कार्यकालमुचितं प्रतीक्षते कार्यबाधकबलं समीक्षते । कार्यकारणविधिं निरीक्षते कार्यमुद्गतफलं तथेक्षते ॥३९॥
तर्कशुद्धपरिणामधारणादुत्थिताऽस्य करणव्यवस्थितिः । अभ्युदायकदशावशाऽभवत् पूर्वयैव रविरुनर्ति श्रयेत् ॥४०।।
अम्बुवाह इव नीरधारया वारिराडिव विशालवेलया । मेघकाल इव दिव्यविद्युता कम्बुरुज्ज्व लतयेव संयुतः ॥४१॥
भार्ययाऽनुपमया विराजते पुष्पपुञ्ज इव सौरभाञ्चितः । भूमिजानुखि कन्दराङ्कितोऽ सौ सुधायुत इव स्वधाधिपः ॥४२॥
श्रीमाणिभद्रमहाकाव्यम् २