________________
योधनादुपरतेन तेन हि चक्रवर्तिविजयः सुखं कृतः । अस्ति यन्नवनिधानसङ्ग्रहो मन्दिरेऽस्य मणिकुट्टिमावते ॥२५॥
नामिताः सुगुणसाधुनाऽमिता श्रेष्ठिनोऽतिविभवाऽवलेपिताः । मान-मत्सरविहीनचेतसा सज्जना न धनसाधना जये ॥२६॥
आपणावलिषु राजतेतरां पण्यधाम नव-राजगेहवत् । मानवैः कलकलै-जैतागतैहिनैरभिनवैस्समाकुलम् ॥२७॥
स्नेहचिद्घनमना मनागपि दुःखवत्यनुगते दृशोः पदम् । अश्रुभिस्तदवलोक्यतां हरन् तस्य तुष्टिमतुलामदर्शयत् ॥२८॥
नापराधवति रोषदृष्टयो नाऽधनेषु परिहाससृष्टयः । तस्य सन्ति तत एव सद्मनि वर्धमान-विभवानुवृष्टयः ॥२९॥
प्रेष्यवर्गमपि मातृवत्सलः पारिवारिकपदं मुदाऽऽर्पयत् । तेनुरस्य महिमानमादरादासगेहगतमिष्टभुक्तयः ॥३०॥
श्रीमाणिभद्रमहाकाव्यम् २