SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ योधनादुपरतेन तेन हि चक्रवर्तिविजयः सुखं कृतः । अस्ति यन्नवनिधानसङ्ग्रहो मन्दिरेऽस्य मणिकुट्टिमावते ॥२५॥ नामिताः सुगुणसाधुनाऽमिता श्रेष्ठिनोऽतिविभवाऽवलेपिताः । मान-मत्सरविहीनचेतसा सज्जना न धनसाधना जये ॥२६॥ आपणावलिषु राजतेतरां पण्यधाम नव-राजगेहवत् । मानवैः कलकलै-जैतागतैहिनैरभिनवैस्समाकुलम् ॥२७॥ स्नेहचिद्घनमना मनागपि दुःखवत्यनुगते दृशोः पदम् । अश्रुभिस्तदवलोक्यतां हरन् तस्य तुष्टिमतुलामदर्शयत् ॥२८॥ नापराधवति रोषदृष्टयो नाऽधनेषु परिहाससृष्टयः । तस्य सन्ति तत एव सद्मनि वर्धमान-विभवानुवृष्टयः ॥२९॥ प्रेष्यवर्गमपि मातृवत्सलः पारिवारिकपदं मुदाऽऽर्पयत् । तेनुरस्य महिमानमादरादासगेहगतमिष्टभुक्तयः ॥३०॥ श्रीमाणिभद्रमहाकाव्यम् २
SR No.009095
Book TitleManibhadrakavyam
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2008
Total Pages209
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy