________________
अद्भुताऽस्य विमलस्मितच्छटा कान्तवाक्यरचना मनोहरा । निःस्वनेऽस्ति सहजा वशीकृतिः सौर व्यवहृतावलौकिकम् ॥१९॥
बुद्धयः सुरगुरोरुपार्जिताः सत्त्वमिन्द्रपरिदत्तमुत्कटम् । रामणीयकमनशिक्षितं व्यापकत्वमुदधेरिवोद्धृतम् ॥२०॥
सद्गुणा न गुणभावमागता दोषदृष्टिरिख दोषयाऽऽवृता । स्वर्णदानकरणातुरात्मना वर्जिता न हि निजा सुवर्णता ॥२१॥
वैभवेन स कुबेरजेतृणा ऽदान्निजाय नगराय धन्यताम् । मङ्गलानि सकलानि लब्धवान् रेखया करगया त्रिकोणया ॥२२॥
भूषणैः परिहितैः स्वविग्रह आक्रयं दिविजसर्वशर्मणाम् । कर्तुमस्त्ययमलं परन्तु स दिव्यलोकदययाऽकरोन्न तत् ॥२३॥
वासवोचितमहार्घचीवरैः पुण्यदेह-समलङ्कृति व्यधात् । वाससां बहुसुवर्णतन्तवो ऽदीप्यताऽस्य तनुकान्तिभिर्वता ॥२४।।
३०
श्रीमाणिभद्रमहाकाव्यम् २