________________
वजभित्तिसबलेन वक्षसा धैर्य-धोरण-धुरावधारिणा । विघ्नकोटिमपहाय दूरतो वित्तकोटिरुपदीकृताऽञ्जसा ॥१३॥
कुक्षिराश्रुतगभीरनाभिना मेदतानववता सुलक्षणः । यौवनस्य च सुखस्य संश्रयं स्वास्थ्यमस्य निरवद्यमाहरत् ॥१४॥
मध्यमस्य हि सुवर्णरज्जुना नित्यबद्धमिति मेरुवर्णवत् । दीप्यमान-परिवर्तिभिर्ग्रहैः स्वर्णिनोऽस्य सुषमा मगध्यति ।।१५।।
रोमलेशयुतयाऽस्य जङ्घया नोपमेयमिह वस्तु किञ्चन । वल्कवत्कदलकाण्डवार्तया न्यूनता भवति निविचारया ॥१६॥
पिण्डिकाबलवशैरिहाऽद्धिभिः निर्विकम्पचलनं विधीयते । सत्त्वमर्जितसुखं पदायताबद्धमुन्निरितकण्टकं पथि ॥१७॥
पादयामलमलं सदङ्गलीपञ्चकेन सहितं हिताध्वगम् । पञ्चतां व्रजति भासुरैर्नखैरस्य शस्यगमिनो दरिद्रता ॥१८॥
श्रीमाणिभद्रमहाकाव्यम् २