SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ गुहागतैरौषधिवज्जलस्रवैः क्लमस्य तूर्णं भवति प्रतिक्रियाः । मृगव्यकाऽऽयासितवन्यदेहिनां समागमश्रान्तिभुजां च तत्स्त्रियाम् ॥२५॥ दृशानदग्धैश्च दृषद्दलैस्त्वचो द्रवन्त्यरं दिग्धहता इव द्रुतम् । तमीशगोभिर्बत लेपितैश्च तैस्त्वचां हि पीयूषवशा दशा भवेत् ॥२६।। प्रभूतसानुस्खलदम्बुसम्भवदनन्तवाराणवाहिवायवः । हिमस्य चूर्णैरिव नूनसूत्रिता शुभा जवन्य किमु निझार सिताः ॥२७॥ चलत्तरङ्गावलिसंस्पृशत्तटनिबद्ध-नौ-नृत्यकलाऽनुरञ्जिता । नदीह सिप्राऽस्ति जलैरमेयया यया जितः क्षारमयोऽम्भसानिधिः ॥२८।। उपान्तयुग्मेन धृता निरन्तरं चलन्त्यबाधं शिबिकासमा सरित् । सरत्पयोबिम्बितया चराचरविलोलसृष्ट्या परिपूरिता किमु ॥२९।। अलब्धमारम्भमदृष्टमन्तकमगोचरं मध्यममुत्र सर्वदा । निभाल्य देवान् गुरुरब्रवीद् यथा नवो भवोऽयं बहुजन्तुसङ्गतः ॥३०॥ श्रीमाणिभद्रमहाकाव्यम् १
SR No.009095
Book TitleManibhadrakavyam
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2008
Total Pages209
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy