________________
पदैदृढस्थैरविखण्डिचर्मणा सकोपमिक्षाभिरुलन्दभैरवः । तथा न निर्माति मनस्सु साध्वसं यथैकखड्गेन किलात्र शृङ्गवान् ॥१९॥
प्लवद्भिरुच्चैस्तरुगैलीमुखैनिपातितैः पर्णगणैः सुमैः फलैः । शशाङ्गना गर्भवतीह पुष्यत उपग्रहः पुण्यवतां सपुण्यके ॥२०॥
न कार्मुकोत्पातितसायकध्वनिर्न वागुराबाधितवन्यवाशितम् । अपाशवाऽऽघ्राणविकोपितिर्यंचां न घर्घराराव इहाऽतावपि ॥२१॥
शृगालिकारूतमुलूकचित्कृति करेणुकाऽङ्केशयतीव्रशोचनम् । तमीसमाश्लेषगतं हि काननं भवेदकस्माद् बहुभल्लताण्डवम् ॥२२।।
विशालभूवाहभरैरविस्खलच्छिलानुबद्धैरियमिद्धसंहतिः । अखण्डकालायसवस्रवाहिभिः प्रचण्डदेहैरिव सैनिकैः श्रिता ॥२३॥
वहन्तीभिरुच्छ्रयतां शनैश्शनरसङ्ख्यकाभिर्गिरिकाभिरावृताः । भुवन्धरा शृङ्गलगज्जलन्धरा भवन्ति लोकद्वयमध्यसेतवः ॥२४॥
श्रीमाणिभद्रमहाकाव्यम् १