________________
वनेष्वलक्ष्या अपि लक्षसङ्ख्यया वसन्ति कामं पशवोऽकुतोभयाः । असूर्यदर्शित्ववशात् सगोत्रिणः निशाचरैरत्र दिवाचरा अपि ॥१३॥
भुजङ्गमुक्तैस्तृणलग्नकञ्चुकैः कुले मृगाणां जडतोपचर्यते । अमीभिरेष्वेव तथा मरुच्चलैरतीववेगो नितमां प्रपूर्यते ॥१४॥
उदाननैर्हिस्रवनेचरैस्सना महानिहोत्क्रोशरवो विधीयते । स कर्णबाधिर्यकरः क्षणादहो निशम्यते नैव ततो भयं कुतः ॥१५॥
नताङ्गवृक्षर्गजताडितैः क्वचित् करावकाशोऽत्र रवेरिवार्ण्यत । घने वने तल्लसदंशुधोरणिस्सुवर्णलेखेव कषोपलेऽङ्किता ॥१६॥
सुकोमलैरिष्टरवैविहङ्गमैर्दुमान्तरस्थैर्मदमञ्जु गीयते । श्रुतं न चैतत् फणि-वाहस-द्रुणैस्ततो हि तेषां विषवाहिताऽभवत् ॥१७॥
दिवा मृगेन्द्रस्य प्रचण्डकोपतः स्फुरद्घटां केशभराद्भुतच्छटाम् । तथा निशि व्याघ्रदृशं समुल्बणां विलोक्य देवैर्विहिताऽस्त्यदृश्यता ॥१८॥
श्रीमाणिभद्रमहाकाव्यम् १