________________
तरूत्वगालिङ्गितनीरबिन्दवः सितेतरां कान्तिमुपाश्रिता नवाम् । भवन्ति तावच्छबरीवधूजनरतश्रमस्वेदजलैस्सबान्धवाः ॥७॥
प्रकम्पिपर्णैः सरघाकलैः पिकैः स्वनद्भिरकस्वरता विधीयते । तरौ तरौ तत्-त्रयसङ्गतैः किमु त्रिमूर्तिरेकाधिकतामुपागतः ॥८॥
प्रगाढवृत्त्याऽन्तरनागतातपात् प्रतिस्वरूपाऽनुपलब्धिदर्शनात् । भुवं स्पृशन्तो द्युसदो भवन्त्यगा न देवतानां प्रतिबिम्बितं यतः ॥९॥
शिरस्सु संवाहितसूर्यभानवः स्वमध्यमध्यासितभूरिजन्तवः । तलस्थलस्थापितसम्यगौषधाः तरुस्वरूपेण लसन्ति मेरवः ॥१०॥
न सङ्ख्यया नावधिना न सञ्जया न चोपमित्याऽपि न चानुमानतः । भवेदुपाख्याऽस्य तरूत्करस्य तत् वनं हि सिद्धैः कलितं न पादपैः ॥११॥
वहत्सु वातेष्वविरामशालिसु वितन्यतेऽलं नटराजनर्तनम् । प्रकम्पिताङ्गं घनघोरगर्जनं वनेन वृक्षर्बत विश्वतर्जनम् ॥१२॥
श्रीमाणिभद्रमहाकाव्यम् १