________________
सर्गः १
( वंशस्थवृत्तम्) स्वयंभुवा सृष्टिरनन्यसंस्थितिविनिर्मिता मालवभूर्नु भारते । रजोऽवलेपाद् विधुराऽतमोहता विकस्वरा सत्त्वमयी शिवालिका ॥१॥
अरण्यदेशैरथ पर्वतैरियं नदैरथोद्यानगणैर्विलासिनी । दधाति सौन्दर्यरसाकुलां दशां न पण्यनारीति हि कौतुकं महत् ॥२॥ वनीघनश्यामलताऽऽविला धरा तृणैः श्वसन्ती हरितं मृदुन्मदैः । सुभाग्यसौख्यानि वहत्यनारतं प्रियेण कृष्णा परिरम्भितेव किम् ॥३॥ शुचिस्मिता क्लान्तिहरा वनस्पतिः सतीव साक्षाद् रमतेऽत्र पावनी । अनेक-भूनाथ-निषेवनोद्यता कथं कथं सा बहुनामिकाऽभवत् ॥४॥
फलोत्सवैरत्र च पुष्पपर्वभिविरच्यते द्वादशमासमुद्धवः । दिवङ्कषानां मदयन्नहर्निशं न मानवानां भवतीह गोचरः ॥५॥ मृदां कणैरत्र पवित्रितक्षणैनमेन्न काचित् किल पत्रवल्लरी । मृदस्तथा वृक्षकपातिपत्रकैनं चावियन्ते बहुपुष्पगन्धिभिः ।।६।।
श्रीमाणिभद्रमहाकाव्यम् १