________________
कलयतु कलिकेलिं सेवको मामकीनौ त्वदुपरि धृतकोपौ भैरवौ प्राहिणोत् सः । मम वशमुपनीतौ त्रासदानेऽसमर्थों गुरुवर ! वितनोमि प्रीतिबद्धोऽस्मि यस्मात् ॥१९॥
अथ सुरपतिरुच्चैराजुहावात्र देवौ असितसितविभक्तौ भैरवौ घोरसत्त्वौ । विरचितविनती तौ तन्त्रविद्याभियोगाद् निजकृतमुपसर्गं त्यक्तुमही न जातौ ॥२०॥
प्रकटविकटहक्का-ताण्डवोऽकाण्डकोपी विविधनिशितहत्नुव्यासघर्षोद्गतार्चीः । विषमपदनिघातैश्शत्रुवृक्षघ्नवातैर्भुवमुपगतखातै-र्दारयन् स्कन्दनोऽभूत् ॥२१॥
उपहितकरवालौ भैरवौ मुण्डमालौ क्रकचकठिनदंष्ट्रौ लोललोलालिलोलौ । खरनखरखलूरौ लोहिताक्षिविकूणौ वयुनवलयवैधव्यक्तवैरौ प्रवृत्तौ ॥२२॥
नभसि विकृततेजस्स्फोटनिर्यातधूमैरविरलमुपलग्नैश्श्यामिकाद्वैतमासीत् । मरुति चलति चेलोच्चालने धूम्ररेखाउ जगरतनुसमानाऽऽलस्यसञ्चालिताऽभूत् ॥२३॥
अरिबलसहमु|विग्रहं शीर्णशैलं चपलबलमकस्माद् दूरतो वीक्षमाणान् । जलधिगतझषानां वैनतेयोड्डयानां चलजलदसुतानां वल्गनैर्धान्तिरासीद् ॥२४।।
१५८
श्रीमाणिभद्रमहाकाव्यम् ९