________________
इति कथयति देवे सरिपो हर्षरखापरिवृतमुखचन्द्रोऽतन्द्रबोधो जगाद । जगति गतिचतुष्के जीवसङ्घस्समन्ताद् भ्रमति मतिविहीनो ग्रामरथ्यासु यद्वत् ॥१३॥
सरति रतिरुगन्धः पापकर्मण्यनन्ते नयति यतिनिदेश: पापनाशात्तदन्तम् । मम न मनसि काश्चिद् धारणास्सन्ति याभिरहमहमिकयाऽहं त्वद्गुरुत्वं लभेय ॥१४॥
तव च वचसि येयं नम्रता वर्तते सा मनसि न सितरागाद् वीतरागाद् विना स्याद् । सममममयतैर्मा बाधते दुष्टयोगस्तव न वनविहारिन् दर्शनीयो मयाऽयम् ॥१५॥
विहितहितविधानो गर्जनासन्निधानो विनय नयनकोपादेव देवं सुदुष्टम् । पतति ततिविशाले सङ्कटे वह्निपुञ्जे लसति सति सुभावे पुण्यमास्तां तवैव ॥१६॥
श्रुतमिदमवधार्य ज्ञानशक्त्याऽवलोक्य श्रमणपतिमुवाच यक्ष आपत्तिमूलम् । त्वयि विरचितदोषः क्रूरमन्त्रप्रयोगो गुरुवर ! जिनपूजालुम्पको पद्मनाभः ॥१७॥
ध्रुवमयमनयन्मामहणाया विरोधे परमहमुपजातोऽर्चारतस्त्वद्वचोभिः । तदिह जयमवाप्तुं वैरयक्तिं स चक्रे मदमथितमनस्का: कुर्वते हीनकृत्यम् ॥१८॥
१५६
श्रीमाणिभद्रमहाकाव्यम् ९