________________
१५४
जलदरवगभीरै- र्देवराजो वचोभिरनुनयहृदयस्तान् सूरिराजानुवाच । स्मरतु बहुकृपाभि-र्मां भवानुज्जयिन्या नगरपतिमनार्यं देव ! माणिक्यसिंहम् ॥७॥
भवति सति मयेयं दिव्यसमृद्धिराप्ता भवति सति ममेयं शक्तिरिष्टङ्कराऽस्ति । कथयतु मयि नाथः कार्यजातं प्रसन्नो गुरुपदकमलानां पुण्यलाभोऽर्चनेन ॥८॥
गिरिपतिशुभयात्रामार्गगामीह देशे गुरुवर ! निहतोऽहं केनचिच्चौरकेण । तव वचनरसानामेकचित्तः समाधिसुखममृतमिवाप्य प्राप्तवान् देवलोकम् ||९||
समभवमहमिन्द्रो माणिभद्राभिधानोऽ धरभुवि किल षष्ठो व्यन्तराणां निकाये । द्विरद-नवसहस्त्रैस्तुल्यशक्तिर्ममास्ति बटुक-धवल- कृष्णैर्भैरवैरचितोऽस्मि ॥१०॥
विदधति परिचर्यां विंशतीनां सहस्त्रैयि गुरुवर ! देवास्त्वत्प्रभावः किलाऽयम् । सति मयि भवतां चेद् वर्तते काऽपि चिन्ता ननु खलमलतुल्या ऋद्धयस्तन्ममेमाः ॥११॥
तव वचनवशोऽहं पापमार्गं जघन्यं हृदय-तनु- वचोभि-निर्जहौ सर्वथैव । तदुपगतमदृष्टं मामिहाऽस्थापयत्तत् तव हितकरणार्थं त्वद्गुणैस्स्यां सहायः ॥ १२ ॥
श्रीमाणिभद्रमहाकाव्यम् ९