________________
सर्गः ९
(मालिनीवृत्तम्)
शिरसि कनकमुक्तारत्नकोटीरशाली वपुषि विमलदीप्तिश्यामलो मेघमाली । चिरमचपलचञ्चत्कर्णिकाकर्णपालिः किरिवदनविनिर्यहन्तके राजसाली ॥१॥
तरुतलगतचैत्यस्थाहदालोकिनेत्रः सतततदितचित्तात्किञ्चिदुन्नीतवकाः । गललगदसमानाभूषणच्छन्नवक्षाः मधुमधुररणद्भि-नूपुरर्बद्धपादः ॥२॥ मणिमुखरमयूखानाविलालङ्कृताङ्गैस्सुरतरुवरशाखासौदरैर्हस्तषट्कैः । सृणिफणिपतिशूलान्धारयन् वामभागे लसितडमरुकाज्यस्त्रग्गदाश्चेतरत्र ॥३॥ विकसितशतपत्री-वीर-रक्तोत्पलानामतिरतिमुपदेष्टं शोणवर्णाञ्चितानाम् । कर-पद-मुख-जिह्वा-नास्तिकौष्ठेषु ताम्रः किमुत विहितलेपोऽलक्तकैर्वा जपाभिः ॥४॥ अविरतमुपपृष्ठं दृष्टिबन्धुप्रभाभिरनणुभिरनुयुक्तस्तारकौघैस्तमीवत् । गुरुवदनसृतेन धर्मलाभश्रुतेन सपदि स सुरराजः प्राणमत् सुप्रसन्नः ॥५॥ पञ्चकम् । अथ कृतवति देवे प्रत्यभिज्ञानपृच्छां तमनवगतमूलो नेति सूरिर्जगाद । प्रकटयति यथार्थं नार्थयत्यन्यमर्थं प्रथयति परमार्थं यद् गुरुस्सावधानः ॥६॥
१५२
श्रीमाणिभद्रमहाकाव्यम् ९