________________
अग्रे हिरण्यरसितेन सितेन दन्तशूलेन भूमिधरमूलनिकासनेन । शोभायुतं निशितखड्गतुलाधरेण सर्वापदुद्धरणदत्तसमादरेण ॥६१।।
स्वातन्त्र्यमात्मबलमन्यजयित्वमुत्कं पुच्छच्छलोच्छलितमुद्धरमुच्चतालैः । सम्यग्दधानमपरापरपादभक्त्या पादत्रयेण कतिचित्समयेऽवरामम् ॥६२॥ षट्कम्
श्रीतीर्थङ्करमातृनेत्रविषयात् स्वप्नाच्छुभादादिमादायातं धरणीतले गजवरं कल्याणसङ्कीर्तनम् । दृष्ट्वा स्कन्धगते सुरे नवरविप्रौढप्रभाभासुर सूरीन्द्रा गुणसम्पदेकनिलयं श्रीधर्मलाभं ददुः ॥६३।।
१५०
श्रीमाणिभद्रमहाकाव्यम् ९